________________
अथ षष्ठमार्द्रकीयमध्ययनम् ।
040
उक्त पश्चममध्ययनं साम्प्रतं षष्ठमारभ्यते इदमाईककुमाराध्ययनम् ।
अत्र आर्द्रककुमारोत्पत्तिः प्राग्भवस्वरूपप्रतिमादर्शनोत्पन्नजातिस्मरणादिकं सर्वं बृहट्टीकातोऽवसेयं, अत्र तु सूत्रार्थ एव प्रतन्यते, तथाहि
पुरे कडं अद्द ! इमं सुणेह, एगंतचारी समणे पुरासी । सेभिक्खुणो उवणेत्ता अणेगे, आइक्खतिपिंह पुढो वित्थरेणं ॥ १ ॥
P
व्याख्या—यथा गोशालकेन समं वादोऽभूदाईककुमारस्य तथाऽनेनाध्ययनेनोपदिश्यते तं च राजपुत्रमाईककुमारं प्रत्येकबुद्धं भगवत्समीपमागच्छन्तं गोशालकोऽब्रवीद्, यथा- मो आर्द्रक ! यदहं ब्रवीमि तच्छृणु, 'पुरा पूर्वं यदनेन भवता कृतं तच्चेदमिति दर्शयति-पुरा एकान्त प्रदेशचारी - श्रमणः पुराऽसीपश्वरणोद्युक्तः, साम्प्रतं तूयैस्तपश्चरणनो विहाय देवादिमध्यगतोऽसौ धम्मं कथयति । बहून् भिक्षूनुपनीय-प्रभूतशिष्यपरिवारं कृत्वा मवद्विघानां मुग्ध नानामिदानीं धर्ममाचष्टे पृथक् पृथक् विस्तरेणेति गाथार्थः ॥ १ ॥