SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ अथ षष्ठमार्द्रकीयमध्ययनम् । 040 उक्त पश्चममध्ययनं साम्प्रतं षष्ठमारभ्यते इदमाईककुमाराध्ययनम् । अत्र आर्द्रककुमारोत्पत्तिः प्राग्भवस्वरूपप्रतिमादर्शनोत्पन्नजातिस्मरणादिकं सर्वं बृहट्टीकातोऽवसेयं, अत्र तु सूत्रार्थ एव प्रतन्यते, तथाहि पुरे कडं अद्द ! इमं सुणेह, एगंतचारी समणे पुरासी । सेभिक्खुणो उवणेत्ता अणेगे, आइक्खतिपिंह पुढो वित्थरेणं ॥ १ ॥ P व्याख्या—यथा गोशालकेन समं वादोऽभूदाईककुमारस्य तथाऽनेनाध्ययनेनोपदिश्यते तं च राजपुत्रमाईककुमारं प्रत्येकबुद्धं भगवत्समीपमागच्छन्तं गोशालकोऽब्रवीद्, यथा- मो आर्द्रक ! यदहं ब्रवीमि तच्छृणु, 'पुरा पूर्वं यदनेन भवता कृतं तच्चेदमिति दर्शयति-पुरा एकान्त प्रदेशचारी - श्रमणः पुराऽसीपश्वरणोद्युक्तः, साम्प्रतं तूयैस्तपश्चरणनो विहाय देवादिमध्यगतोऽसौ धम्मं कथयति । बहून् भिक्षूनुपनीय-प्रभूतशिष्यपरिवारं कृत्वा मवद्विघानां मुग्ध नानामिदानीं धर्ममाचष्टे पृथक् पृथक् विस्तरेणेति गाथार्थः ॥ १ ॥
SR No.090470
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherMotichand Maganchand Choksi
Publication Year1962
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy