________________
व्याल्या-यथेष्टार्थफलसम्प्राप्तिः कल्याणं तम विद्यते तथा पापं पापवान्वा न कश्चिविद्यते, तदेवमुमयोरप्यभावः, | इत्येवं रूपां संज्ञा नी निवेशयद , यतः-कल्याणपापयोपिना सुखी दुःखी सरोगी निरोगी सुरूपः कुरूपो दुर्भगः सुमगो धनी दरिद्रो मूर्खः पण्डितो वेत्यादिको जगद्वैचित्र्य मावोऽध्यक्षसिद्धोऽपि न स्यात्तस्मादस्ति कल्याणं पापं चेत्येवं संज्ञां निवेशयेदिति गाथार्थः ॥ २८ ।।।
न चैकान्तेन[ कल्याण ]कल्याणमेव, यतः कैवलिनां प्रक्षीणधनवातिकर्मचतुष्टयानां सातासातोदयसद्भावाचवा नारकाणामपि पञ्चेन्द्रियस्वविशिष्टज्ञानादिसावाकान्तेन ते पापबन्त इति, तस्मात्कथञ्चित्कल्याणं कथञ्चित्यापमिति | स्थितं । तदेवं कल्याणपापयोरनेकान्तरूपत्वं प्रसाध्य एकान्त दूयितुकाम आह
कल्लाणे पावए वा वि, ववहारो न विजई। जं वरं तं न जाणंति, समणा बालपंडिया ॥ २९ ॥
व्याख्या-सर्वथा कल्याणवानेवायं तथा पापवानेवायमित्येवम्भूतो व्यवहारो न विद्यते, एकान्तस्यार्थस्याभावात , | अनेकान्तवादस्यैवाश्रयणात्सर्ववस्तूनामनेकान्ताश्रयणेन[प्राक] प्रसाधितत्वात् , एकान्तिको व्यवहारो न विद्यते कुत्रापि वस्तु. विषये इति मावः। यः पुरुष एकान्तेन पुण्यवान् दृश्यते सोऽप्यन्त्यावस्थायां परिणामपरावर्तादुर्गतौ प्रयाति यः पापी सोऽपि परिणामवशात्मुगतिगामी स्पात , अत एकान्तवचनं न ब्रूयात् । तथा वैरं कर्मविरोधो वा वैरं, तोन च परोप
x" तदभावे कल्याणवांश्च न कश्चिद्विद्यते" इति बृहदयत्तिः ।