________________
भावः इत्येवं संज्ञां नो निवेशयेत् । किमिति १ यतः - कस्यचिदेव कर्म्मण एवमनन्तरोक्तया नीत्या क्षपणात्तपसा प्रदेशानुभवेन चापरस्य दयोदीरणाभ्यामनुमवनमित्यतोऽस्ति वेदना, आगमोऽध्येवम्भूत एव तद्यथा-" x पुवि दुचित्राणंदुपडिकंताणं वेत्ता मोखो, नत्थि अवेत्ता " इत्यादि । वेदनासिद्धौ च निर्जराऽपि सिद्धैवेत्यतोऽस्ति वेदना निर्जरा चेत्येवं संज्ञां निवेशयेदिति गाथार्थः ॥ १८ ॥
वेदना निर्जरा च क्रियाक्रियायते, ततस्तद्भावं प्रतिपेधपूर्वकं दर्शयितुमाह-
नत्थि किरिया अकिरिया बा, नेवं सन्नं निवेसए । अस्थि किरिया अकिरिया वा, एवं सन्नं निवेस ॥१९॥
I
व्याख्या- 'क्रिया' वरिस्पन्दमा वर्ष लक्रिया के द्वे अपि न स्तो-न विद्येते, इत्येवंविधां संज्ञां नो निवेशयेत्, यतः -- शरीरात्मनोर्देशादेशान्तरावाप्तिनिमित्ता परिस्पन्दात्मिका क्रिया प्रत्यक्षेणैवोपलभ्यते, सर्वथा निष्क्रियत्वे चात्मनोऽभ्युपगम्यमाने गगनस्यैव चन्धमोक्षाद्यभावः, स च दृष्टेष्टबाधितः अपि चैकान्तेन क्रियाऽभावे संसारमोक्षाभावः स्या दिव्यतोऽस्ति क्रिया तद्विपचभूता चाक्रियाऽप्यस्ति इत्येवंविधां संज्ञां निवेशयेदिति गाथार्थः ॥ १९ ॥
अथ सक्रिये आत्मनि सति क्रोषादिसद्भाव इत्येतद्दर्शयितुमाह---
थि कोहे व माणे वा, नेवं सन्नं निवेसए । अस्थि कोहे व माणे वा, एवं सन्नं निवेस ॥ २० ॥ X पूर्वं दुखीर्णानां दुष्प्रतिक्रान्तानां ( कर्मणां ) वेदयित्वा मोक्षो, नास्त्यवेदयित्वा ।
१९