________________
कथं रूपयेत् ? अस्थि धम्मेत्यादि, अस्ति धर्मः - अधम्मौध्यस्ति, यतो धम्र्माधर्ममन्तरेण संसारवैचित्र्यं न स्यात्, यतः - " प्रत्यक्ष एव विश्वेऽस्मिन् प्रपञ्चः पुण्यपापयोः । द्विभिन्नं (वि) जगत्सर्व, सुखदुःखव्यवस्थया ॥ १ ॥ एके दधति साम्राज्यं, परे दधति दासताम् । " हत्यादिवचनात्, अतो धर्मः सम्यग्दर्शनादिकोऽस्ति अधम्र्मोऽपि मिथ्यात्वादिकोsस्ति इत्येवं संज्ञां निवेशयेदिति गाथार्थः ॥ १४ ॥
स्थिबंधे व मुक्खे वा नेवं सन्नं नित्रेसए । अस्थि बंधे व सुक्खे वा, एवं सन्नं निबेस ॥ १५ ॥
व्याख्या - बन्धः कर्मणां 'नास्ति' न विद्यते, अमूर्त्तत्वादात्मनो गगनस्येव न कर्मणां बन्धः इत्येवं संज्ञां नो निवेशयेत्, तथा बन्धाभावाच्च मोक्षस्याप्यभात्र इत्येवमपि संज्ञां नो निवेशयेत्, किन्तु 'अस्थि यंत्रे व सुक्खे वा' अस्त्यात्मनो बन्धः कर्मणां अमूर्तस्याप्यात्मनो मूर्त्तः कर्मपुद्गलैः सह सम्बन्धो बन्धः, स तु विद्यत एव आत्मनः सक्रियत्वात्, सक्रियस्य स्यादेव बन्धः, यदा खात्माऽक्रियस्तदा न कर्म्मबन्धः, बन्धाभावाच्च मोक्ष एव, अतो बन्धोऽप्यस्ति मोक्षोऽप्यस्तीत्येवं संज्ञां निवेशयेदिति गाथार्थः || १५ |
अथ बन्धसद्भावे पुण्यपापयोरपि सद्भात्रः । तर्हि -
I
नत्थ पुत्रे व पावे वा नेवं सन्नं निवेसए । अस्थि पुन्ने व पावे वा, एवं सन्नं निवेस ॥ १६ ॥ व्याख्या -' नास्ति ' न विद्यते 'पुण्यं शुभकर्मप्रकृतिलक्षणं तथा पाप-मशुभकर्मप्रकृतिलक्षणं 'नास्ति ' न विद्यते,
'