________________
अथ पुनरपि चारित्रमधिकृत्याहारमधिकृत्या चारानाचारौ प्रतिपादयितुकाम आइ
अहाकम्माणि भुंजंति, अन्नमन्ने सकम्मुणा । उवलित्तेति जाणिजा, अणुवलित्तेति वा पुणो ॥ ८ ॥
व्याख्या -- साधुमाश्रित्य कर्माणि - आधाकम्र्माणि तानि च वस्त्रभोजनवसत्यादीनि, एतान्याषाकर्माणि खन्तेएतैरुपभोगं ये कुर्वन्ति अन्योऽन्यं परस्परं तान्स्वकीयेन कर्म्मणोपलिप्तान् विजानीयादित्येवं नो वदेत् [ तथाऽनुपलिप्सानिति वा नो वदेत् ]। एतदुक्तं भवति अवाकम्र्माऽपि श्रुतोपदेशेन शुद्धमिति कृत्वा सुजानः कर्मणा नोपलिप्यते तथा श्रुतोपदेशमन्तरेणाऽऽहारगृड्या आधाकमै भुञ्जानस्य तनिमित्तकर्म्मबन्धसद्भावात्, अतोऽनुपलिप्तानपि नो वदेत् यथावस्थितमौनीन्द्रागमज्ञस्य त्वेवं युज्यते वक्तुं -आधाकम्मोपभोगेन स्यात्कर्म्मबन्धः स्यान्नेति उक्तं च-" किश्चिच्छुद्धं क य-मकल्पयं वा स्यादकल्य्यमपि कल्पम् । पिण्डः शय्या वस्त्रं, पात्रं वा भेषजायं वा ॥ १ ॥ " अतः आधाकर्मणोपलिप्तान् वा अनुपलिप्तान् वा इत्येकान्तेन नो वदेत् ॥ ८ ॥ किमित्येवं स्याद्वादः प्रतिपाद्यते : इत्याहएते दोहिं ठाणेहिं, ववहारो न विजई । एतेहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥ ९ ॥
व्याख्या—आभ्यां स्थानाभ्यामनयोर्वा स्थानयोराधाकर्मोपभोगेन कर्मबन्ध[यात्रा]] भावभूतयोर्व्यवहारो न विद्यते, तथाहि श्रुते हि कदापि कस्यामप्यवस्थायामा पाकर्मग्रहण मध्यनुज्ञातमस्ति । सव्वत्थ संजमं सं-जमाओ अप्पाणमेव रक्खिला | मुबइ अवायाओ, पुणो वि सोही न(त) या (१) विरई ॥ १ ॥ " तथा " संधरणंमि असु