SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ अथ पञ्चममाचारश्रुताध्ययनम् साम्प्रतं पश्चममारभ्यते, तत्रेयमादिगाथा 1 + आदाय बंभवेरं च, आसुपने इमं वयं । अस्ति धम्मे अणायारं, नायरेज कयाइ वि ॥ १ ॥ व्याख्या --- ' आदाय गृहीत्वा किं तद् ? ब्रह्मचर्य - सत्य-भूतदया-तप-इन्द्रियनिरोधलक्षणं एतन्मौनीन्द्र प्रवचने ब्रह्मचर्यमित्युच्यते, तदादाय 6 'आशुप्रज्ञः सदसद्विवेकज्ञः 'इमां समस्ताध्ययनेनाभिधीयमानां वाचं[] इदं जगत् ] शाश्वतमेवमेव वा इत्यादिकां कदाचिदपि 'नाचरेत् ' न कथयेत् तथाऽस्मिन्धम्र्मे सर्वज्ञप्रणीते व्यवस्थितः सन् अनाचारं - सात्रद्यानुष्ठानरूपं न समाचरेत् ' न विदध्यात् यदि वा केवलिप्रणीते धर्मे व्यवस्थितः 'इम' वक्ष्यमाण याच मनाचारं च कदाचिदपि नाचरेदिति श्लोकार्थः ॥ १ ॥ अथाचार्योऽनाचारं दर्शयितुं यथावस्थित लोकस्वरूपप्रकटन पूर्वकमाह अणादीयं परिन्नाथ, अणवदग्गेति वा पुणो । सासयमसासए वा, इति दिट्ठि न धारए ॥ २ ॥ व्याख्या - चतुर्दशरणात्मकं लोकमनादिकमनचद[- अनन्तं ] परिज्ञाय-अपर्यवसानं च ज्ञात्वा शाश्वतमशाश्वतं इत्येकान्तेन न वदेत्, इत्येवम्भूतां दृष्टिं न धारयेत् पण्डितस्त्वेकान्तेन शाश्वतमेवाश्शाश्वतमेव लोकं न वदेदिति गाथाऽर्थः ॥ ३ ॥ १८
SR No.090470
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherMotichand Maganchand Choksi
Publication Year1962
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy