________________
का
यू ।
व्याख्या - ये वेदान्तवादिनो वादिनस्ते एवं प्रतिपादयन्ति 'पुरुषः पुरुषत्वमेवाश्नुते पशुरपि पशुत्वमेवेति, तदत्रापि संज्ञिनः संज्ञिन एव भविष्यन्ति असंज्ञिनोऽपि असंज्ञिन इति वावगच्छेदार्थमाह-' सब्बजोणिया घी 'त्यादि, यदि वा किं संज्ञिनोऽसंज्ञिकर्मसम्बन्धं प्राक्तने कर्मणि सत्येव कुर्वन्ति १ किंवा नेत्येवमसंज्ञिनोऽपि संज्ञिकर्मबन्धनं प्राक्तने सत्येव कुर्वन्त्याहोस्विन्नेत्येतदाशङ्कयाह -- ' सव्वजोणिया वी 'त्यादि, सर्वा योनयो येषां ते सर्वयोनयः, संवसत्रिवृत्तोभय-शीतोष्णोभय-सचित्ताचित्तोभयरूपयोनय इत्यर्थः । सर्व योनयोऽपि खलु वः पर्याप्यपेक्षया यावन्मनःपर्यासनं निष्पद्यते तावदसंज्ञिनः करणतः सन्तः पश्चात्संज्ञिनो भवन्ति एकस्मिमेव जन्मनि, अन्यजन्मापेक्षया स्वकेन्द्रियादयोपि सन्तः पश्चान्मनुष्यादयो भवन्तीति तथाभूतकर्मपरिणामात्, न पुनर्मव्या भव्यत्यवव्यवस्थानियमो मध्यामव्यत्वे हिं न कर्मायचे, अतो नानयोर्व्यभिचारः । ये पुनः कर्मवशगास्ते संज्ञिनो भूत्वाऽन्यत्रा संझिनो भवन्ति, असंज्ञिनश्च भूत्वा संज्ञिन इति । वेदान्तवादिमतस्य तु प्रत्यक्षेणैव व्यभिचारः समुपलभ्यते, तथाहि -संज्ञयपि कश्विन्मृच्छयवस्थायामसंज्ञित्वं प्रतिपद्यते
पगमे पुनः संज्ञित्वमिति, जन्मान्तरे तु सुतरां व्यभिचारः, तथा प्रबुद्धो निद्रोदयात्स्वपिति सुप्तश्च प्रतिबुध्यते, एवं पोपावस्था एकस्मिन्नेव भवे जीवस्य जायते, एवं संज्ञित्वमसंज्ञित्वमप्येकस्मिन्नेव भवे जन्तोरविरुद्धमिति । एवं परमवेऽपि संश्यसंज्ञी स्यादसंज्ञी च संज्ञी स्यात् । तथा पुरुषो देवत्वं देवख पुरुषत्वमित्येवं सर्वत्र योज्यम् ।
तत्थ से अविवि[वि]त्ता अविधूणित्ता असंमुच्छित्ता अणणुतावित्ता असन्निकायाओ [वा]