________________
कस्यचिद्वषपरिणतः कश्चित्पुरुषो भवति, कीयो का ? ' गाहावहस्से 'त्यादि, गृहपतिर्गृहपतिपुत्रो वा तस्योपरि कविद्वषकः संवृत्तः स च बधपरिणामपरिणतोऽपि कस्मिँश्चित्क्षणे पापकारिणमेनं धातयिष्यामीति । तथा राज्ञः राजपुरुषस्य वोपरि कुपित एतत्कुर्यादित्याह - ' खणं निदाय' इत्यादि, क्षण - मत्रसरं 'निवाय'ति प्राप्य लब्ध्वा [ वध्यस्य ] पुरे गृहे वा प्रवेक्ष्यामीति तदध्यवसायी भवति, तथा क्षणमवसरं छिद्रादिकं बध[वध्य ] स्य लब्ध्वा तं वच्यं इनिष्यामीत्येषं सम्प्र वारयति तथा गृहपते राज्ञो वा कचित्कारण कोपाद्वघपरिणतोऽध्यात्मनोऽवसरं लब्ध्वा इनिष्यामीत्यवसरं-छिद्रमपेक्ष माणस्तदवसरापेक्षी, कश्चित् कालमुदास्ते, स च तत्रदासीन्यं कुत्रणः अपरेण कार्यादिना व्यप्रचेतास्तस्मिन्नवसरे व[]ध्यं प्रत्यस्पष्टविज्ञानो भवति स चैवम्भूतोऽपि यथा तं वध्यं प्रति नित्यमेव प्रशठव्यतिपातचित्तदण्डो भवति, एवमविद्यमानैरवि प्रज्य के रशुमैर्योगंरे केन्द्रिथविकलेन्द्रियादयोऽस्पष्टविज्ञाना अपि मिध्यात्वाविरतिप्रमादकषाय योगानुगतत्वात्प्राणातिपातादिदोषवन्तो भवन्तीति न च तेऽवसरं अपेक्षमाणा उदासीना अपि अवैरिण इति, एवमस्पष्टविज्ञाना अपि वैरिणो भवन्तीति । साम्प्रतमाचार्य एवं स्वाभिप्रेतमर्थं परप्रश्नपूर्वकमाविर्भावयन्नाह - ' से किं नु हु' इत्यादि, आचार्यः स्वतो निर्णीतार्थोऽसूयया परं पृच्छति - किमसौ बधक पुरुषो[हनना ]saसरापेक्षी छिद्रं सम्प्रधारयन् ' चिन्तयन् अहर्निशं सुप्तो जाग्रदवस्थो वा 'तस्य' गृहपते राज्ञो वा वध्यस्यामित्रभूतो वा मिथ्यासंस्थितो नित्यं प्रशठव्यतिपात चित्तदण्डो भवति ? आहोस्विनेत्येवं पृष्टः परः समतया माध्यस्थ्यमवलम्बमानो यथाऽवस्थितमेव व्यागृणीयात्, यथा-इन्द आचार्य ! भवत्यसावमित्रभूत इत्यादि । तदेवं दृष्टान्तं प्रदर्श्य दार्शन्तिकमाह-