________________
-
व्याख्या – अथानन्तरमेतदाख्यातं ' इह 'अस्मिन् संसारे 'एके 'केचन तथाविधकम्र्मोदयवशवर्त्तिनः 'सत्राः प्राणिनो नानाविधयोनिकाः कर्मनिदानेन स्वकृतकर्म्मणा तत्रोत्पत्तिस्थाने ' उपक्रम्प' आगत्य नानाविधत्र सस्थावराणां शरीरेषु सचित्तेषु वाऽचिचेषु वा 'अणुसूयत्ताए 'चि अपरशरीराभिततया परनिश्रया 'विवर्त्तन्ते ' समुत्पद्यन्ते, यावत्ते च जीवा विकलेन्द्रियाः सचित्तेषु मनुष्यादिशरीरेषु यूकालिक्षादिकत्वेनोत्पद्यन्ते तथा तत्परियुज्यमानेषु मञ्चकादिष्वचितेषु मल्कुणत्वेनाविर्भवन्ति-उत्पन्यन्ते तथऽचित्तीभूतेषु मनुष्यादिशरीरेषु विकलेन्द्रियशरीरकेषु वा ते जीवा 'अनुभू [१स्यू ] तत्वेन' परनिश्रया कृम्यादिवेनोत्पद्यन्ते परे तु सचिचे तेजस्कायादौ मूषकादिकत्वेनोत्पद्यन्ते यत्र चाग्निस्तत्र वापुरित्यत - स्तदुद्भवा अपि द्रष्टव्याः, तथा पृथिवीमनुश्रित्य कुन्युपिपीलिकादयो वर्षादावुष्मा संस्वेदजा जायन्ते तथोदके पूतरका डोल्लुणक अमरिका छेदन कादयः समुत्पद्यन्ते, तथा वनस्पतिकाये पनकभ्रमरादयो जायन्ते । तदेवं ते जीवास्तानि स्वयोनिशरीराण्याहारयन्ति इत्येवमाख्यातमिति । साम्प्रतं पश्चेन्द्रियमूत्रपुरीषोद्भवान् प्राणिनः प्रतिपादिवितुमाह ' एवं ' मिस्वादि, यथा सचिचाचिचनिश्रया विकलेन्द्रियाः समुत्पद्यन्ते तथा तत्सम्भवेषु मूत्रपुरीषवान्तादिषु परे जन्तवो 'दुरूवत्ताए ' दुरूपास्तत्सम्भवत्वेन कम्पादिभाषत्वेनोत्पद्यन्ते । ते च तत्र विवादौ देहान्निर्गते अनिर्गते वा समुत्पद्यमाना उत्पन्नाच तदेव विष्ठादिकं स्वयोनिभूत [माहार] माहारयन्ति, शेषं प्राग्वद् । सांप्रतं सचिचशरीराऽऽश्रयाञ्जन्तून् प्रविपादयितुमाह खुरदुगत्ताए' एवमिति यथा मूत्रपुरीषादावुत्पादस्तथा तिर्यक्रशरीरेषु ' खुरदुगत्ताए 'सि चर्मकीटतया समुत्पद्यन्ते, इदमुक्तं भवति जीवतामेव गोमहिष्यादिनां चर्म्मणोऽन्तः प्राणिनः संमूच्छर्थन्ते, ते च तन्मांसचर्म्मणी भक्षयन्ति, मायन्त
एवं
1