SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ व्याख्या - इत्येतेषु द्वादश क्रियास्थानेष्वधर्मपक्षः समवतार्थते, तत् एतेषु वर्तमाना जीवा नातीते काले सिद्धा न सिद्ध्यन्ति न सेत्स्यन्ति, तथा न बुबुधुने बुद्ध्यन्ते न भोत्स्यन्ते तथा न मुमुचुर्न मुञ्चन्ति न च मोक्ष्यन्ते, न निर्वृता न निर्वान्ति न निर्वास्यन्ति तथा न सर्वदुःखानामन्तं यथुर्न च यान्ति न च यास्यन्ति । साम्प्रतं त्रयोदशं क्रियास्थानं धर्मपाश्रितं दर्शयितुमाह-' एसि ' इत्यादि, एतस्मित्रयोदशे क्रियास्थाने वर्त्तमानाः जीवाः सिद्धाः सिद्धयन्ति सेत्स्यन्ति यावत्सर्वदुःखानामन्तं करिष्यन्तीति स्थितम् । तदेवं स भिक्षुर्यः पुण्डरीकाध्ययनेऽभिहितो द्वादशक्रियास्थानवर्जका अधर्मपक्षानुपश्रमपरित्यागी धर्मपक्षे स्थित उपशान्तः आत्मार्थ्याऽऽत्मार्थसाधकः आत्महितः आत्मगुप्तः आत्मयोगी-सदा धर्मध्याना वस्थित तथा पापेो दुर्गतिगमनादिभ्यः आत्मा रक्षितो येन स आत्मरक्षी, सावद्यानुष्ठानानिवृत्त इति भावः । तथाऽस्मान मनुकम्पते - शुभाऽनुष्ठानेन सद्गतिगामिनं विधत्ते, तथाऽऽत्मानं [संयमेन] संसारचारकान्निस्सास्यति, तथाऽऽत्मानमनर्थभूतेभ्यो द्वादशक्रियास्थानेभ्यः प्रतिसंहरेत् तथाऽऽत्मानं सर्वानर्थेभ्यो निवर्त्तयेदिति । एतच महापुरुषे सम्भाव्यते । इतिः परिसमाध्यर्थे, ब्रवीमीति पूर्ववत्, श्रीसुधर्मस्वामी जम्बूस्वामिनमुद्दिश्य भाषते - श्रीवर्द्धमानस्वामीसमीपे मयैतच्छुतं तद्भवतो निवेदित, न स्वमनीषिकयेति समाप्तं क्रियास्थानाख्यं द्वितीयमध्ययनमिति । वापि मया पुण्यं, क्रियास्थानं विवृण्वता । तेन पुण्येन लोकोऽयं, भूयादानन्दमेदुरः || १ || ********** इति श्रीपरमसुविहितस्वरतरगच्छवि भूषण पाठक प्रवर श्री मत्साघुरङ्गगणिवर कृतायां श्रीमत्कृताङ्गदी पिकाय द्वितीयश्रुतस्कन्थे द्वितीयमध्ययनं समाप्तम् ॥ mapkin been aloittaa domprarbet
SR No.090470
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherMotichand Maganchand Choksi
Publication Year1962
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy