________________
सम्प्रयोगार्थनाशादिभिर्दुःखदौर्मनस्यानामा भागिनो भविष्यन्ति । तथाऽनाद्यनवद-अनाद्यनन्तं संसारकान्तारं भूयो - भूयः अनुपरिवर्तिष्यन्ते, अरघट्टघटीन्यायेन तत्रैव भ्रमन्तः स्थास्यन्ति । तथा ते कुप्रावचनिकाः नैष सेत्स्यन्ति, नैव ते सर्वपदार्थान् भोत्स्यन्ते नैव ते संसारान्मोक्ष्यन्ते, तथा परिनिर्वृतिः- परिनिर्वाणमानन्दं नैव लप्स्यन्ते । न च ते सर्वदुःखानामन्तं करिष्यन्ति एवं स्वयूथ्या अपि सावद्योपदेशतया न सेत्स्यन्ति । एषा तुला एतत्समवसरण - मागमविचार रूपं द्रष्टव्यमिति । तथा ये पुनर्विदिततच्चा एवं प्ररूपयन्ति - सर्वेऽपि जीवा दुःखद्विषः सुखलिप्सवोऽतो न हन्तव्या इति भाषन्ते ते पूर्वोक्तं दण्डनादिकं न प्रास्यन्ति, संसारकान्तारमचिरेणैव व्यतिक्रमिष्यन्तीत्यादि सर्वे पूर्वोक्तं भणनीयमिति । भणितानि क्रियास्थानानि, अथ पूर्वोक्तमेव संक्षेपेण कथयति -
sarहिं बारसहिं किरियाठाणेहिं वट्टमाणा जीवा नो सिंज्झिसु जाव नो सवदुक्खाणं अंत [] वा [ णो ] करिस्संति वा, एयंसि चैव तेरसमे किरियाठाणे वट्टमाणां जीवा सिज्झि बुझि मुचिंसु परिनिवाईसु जाव सङ्घदुक्खाणं अंतं करिंसु वा करिति वा करिस्सति वा । एवं से भिक्खू आतट्ठी ( आत्मार्थी ) आयहिते आयगुत्ते आयजोगे आयपरक्कमे आरखिए आयाणुपए आयनिप्फेडए आयाणमेव पडिसाहरिज्जासि तिबेमि [सू० २७ ] | arrerita किरियाठाणं नाम बीयमज्झयणं समत्तं ॥