________________
पाणि प्रसारयत, तेऽपि च तथैव कुयुः, ततोऽसौ पुरुषस्तद्वाजनं तत्पाणौ समर्पयति, तेऽपि च दाहाया हस्त सङ्कोचयेयुरिति । ततोऽसौ तानुवाच-किमिति पाण प्रतिसंहरत ! यूर्य, एवमाहितास्ते ऊचुः-दाहमयादिति । एतदुक्तं भवति-अवश्यमग्निदाहमयान्न कश्चिदग्न्यभिमुखं पाणिं ददातीत्येतत्परोऽयं दृष्टान्तः। [ स नर प्राह-] पाणिना दग्धेनापि किं भवतां | भविष्यति । दुःखमिति चेयद्येवं दाहभीरवो यूयं सुखाभिलाषिणच, तदेवंसति सर्वेऽपि जन्तवः संसारोदरविवरवर्चिन एवम्भूता | एवेत्येवमात्मतुलया-ऽऽत्मौपम्येन यथा मम नाभिमतं दुःखमेवं सर्वजन्तूनामित्यवगम्याहिंसैव प्राधान्येनाऽऽश्रयणीया । | 'तदेतत्प्रमाण' सैषा युक्तिः “आत्मवत् सर्व भूतानि, यः पश्यति स पश्यति" तदेतत् समवसरण-स एवं धर्मविचारो यत्राहिंसा सम्पूर्णा, तत्रैव परमार्थतो धर्म इत्येवं व्यवस्थिते तत्र ये केचनाचिदितपरमार्थाः श्रमणबामणादयः ‘एवं' वक्ष्य माणमाचक्षते-परेषामेवं भाषन्ते, तथैवं धम्म ' प्रज्ञापयन्ति ' यत्रस्थापयन्ति, तथाऽनेन प्राण्युपतापकारिणा प्रकारेण धम्म प्ररूपयन्ति, तथाहि-सर्वे प्राणा इत्यादि, याचदन्तव्या दण्डादिभिः, परितापयितव्याः धर्मार्थमरघट्वहनादिभिः, परिमायाः श्राद्धादौरोहितमत्स्यादय इव तथाऽपद्रावयितव्या देवतायामादिमिमि छागादयः, इत्येवं ये श्रमण | कारिणी भाषा भाषन्ते ते आगामिनि काले 'अनेको' बहुशः स्वशरीरच्छेदाय भेदाय च भाषन्ते, तथा ते सावध| भाषिणो मविष्यति काले जातिजरामरणानि बहूनि प्राप्नुवन्ति । [ योन्यां जन्म ] योनिजन्म, तदनेको गर्भव्युत्क्रान्तजावस्थायां प्राप्नुवन्ति, तथा संसारप्रपत्रान्तर्गताः कलङ्कलीभावभाजो भवन्ति बहुश्शो भविष्यन्ति च, तथा ते बहूनां दण्णादीनां [ शारीराणां ]दुःखानामात्मानं माजनं कुर्वन्ति, तथा ते मानमरणादीनां मानसाना दुःखानां तथाऽन्येषामप्रिय.