________________
तदेतत् स्थानं कल्याणं - परम्परया सुखचिपाकमिति कृत्वाऽऽर्यमित्येवं विभङ्गस्तृतीयस्य स्थानस्य मिश्रकाख्यस्याऽऽरूयात इति । उक्ताः धार्मिका अनामिकाच, तदुभयरूपाश्चाभिहिताः । साम्प्रतमेतदेव स्थानत्रिकं संक्षेपतो विभणिपुराह -
अविरतिं पच्च वाले आहिजति, त्रिरतिं पच पंडिए आहिजति, विरयाविरई पडुच्च बालपंडिए आहिज्जति, तत्थ णं जा सा सहओ अविरती एस ठाणे आरंभट्ठाणे अणारिए जाव असवदुक्खप्पीस एमिच्छे बाहू । तस्य मं जा सा सवतो विरती एस ठाणे अणारंभट्ठाणे ( एस ठाणे ) आरिए जाव सवदुक्खष्पहीणमग्गे एगंतसम्मे साहू । तत्थ णं जा सा सबओ विश्यावर एस ठाणे अणा [आरंभणोआ] रंभट्ठाणे, एस ठाणे आरिए जाव सवदुक्खप्पीणमो एतसम्म साहू ॥ [सू. २४] ॥
व्याख्या - येयमविरतिरसंयमरूपा, सम्यक्त्वा मावान्मिथ्यादृटेर्द्रव्यतो विरतिरप्यविरतिरेव तां 'प्रतीत्य ' आश्रित्य बालोऽङ्गः, सदसद्विवेक विकलत्वादित्येवमाधीयते - व्यवस्थाप्यते आख्यायते वा, विरति प्रतीत्य पण्डितः, तथा विरताविरति प्रतीत्य वालपण्डित इत्येतत्प्राग्वदायोज्यमिति । ' तत्थ ण' मित्यादि, तत्र पूर्वोक्तेषु स्थानेषु येयं सर्वस्मादविरतिविरतिपरिणामाभावः, तदेतत्स्थानं सावद्यारम्मस्थानं, एतदाश्रित्य सर्वाणि [अ] कार्याणि क्रियन्ते, अत एतदनार्यस्थानं, निशङ्कतया परिकञ्चनकारित्वात् यावदसर्वदुःख प्रहीण माग्गोऽयं एकान्तमिध्यारूपोऽसाधुरिति, तत्र च येयं 'विरतिः '