SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ सूक्ष्मगात्रसञ्चारा मवन्ति, तया क्रियया यद् बध्यते कर्म तस्य च कर्मणो या अवस्थास्ताः क्रियाः, ता एव दर्शयितुमाह'सा पढनसमये'त्यादि, याऽसावकषायिणः क्रिया तया यद्वध्यते कर्म, तत्प्रथमसमय एच बद्धं स्पृष्टं चेति कृत्वा तक्रियैव बद्धस्पृष्टेत्युक्ता, तथा द्वितीयसमये वेदिता तृतीयसमये निर्जीणा, एतदुक्तं भवति-कर्म योगनिमित्तं बध्यते, तत् स्थितिश्च कषायायत्ता तदभावाच न तस्य सांपरायिकस्येय स्थितिः, किन्तु योगसद्भावाद्वध्यमानमेव 'स्पृष्टता ' संश्लेष याति, द्वितीयसमये त्वनुभूयते, तच्च प्रकृतितः सातावेदनीय स्थितितो द्विसमयस्थितिक अनुभावतः शुभानुभावमनुत्तरोपपातिकदेवसुखातिशायि प्रदेशतो बहुप्रदेशमस्थिरबन्धं बहुव्ययं च । तदेवं सा ईपिथिका क्रिया प्रथमसमये बद्धस्पृष्टा द्वितीये समये उदिता वेदिता निर्जीर्णा भवति । 'सेयकाले प्रति आगामिनि तृतीयसमये तत्कर्मापेक्षया अकर्मचापि च भवति । एवं तावद्वी. तरागस्येर्याप्रत्ययिकं कर्म आधीयते' सम्बध्यते । तदेतत्रयोदशमं क्रियास्थानं व्याख्यातं, ये पुनस्तेभ्योऽन्ये प्राणिनस्तेषां सापरायिको बन्धः । तेषां वीर्यापथवर्जाणि द्वादशक्रियास्थानानि, तेपु( १ ) वर्तन्ते, तेषां च नर्तिनामसुमतां मिथ्यावा. विरतिप्रमादकपाययोगनिमित्तः साम्परायिको बन्धो मवति, स खनेकप्रकारस्थितिकः, तद्रहितस्तु केवलयोगप्रत्यायको द्विसमयस्थितिरेवेर्याप्रत्यायिक इति स्थितम् । एतानि त्रयोदशक्रियास्थानानि न बर्द्धमानस्वामिनेवोक्तानि, किन्त्वन्यैरपीत्ये. तदर्शयितुमाह-' से बेमी'त्यादि, सोऽहं प्रवीमि-यत्प्रागुक्तं तनीमि इति, तद्यथा--येहन्तोऽ)तिकान्ताः, ये च वर्तमानाः, ये चागामिनि काले भविष्यन्ति, ते सर्वेऽप्येचं +प्ररूपितवन्तः प्ररूपयन्ति प्ररूपयिष्यन्ति, तथैतदेव त्रयोदशं क्रिया- | + अभाषिषुः भाषन्ते भाषिष्यन्ते च । तथा तत्स्वरूपतस्तद्विपाकतश्चेति वृत्तौ ।
SR No.090470
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherMotichand Maganchand Choksi
Publication Year1962
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy