SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ प्रकारे पुरुषजाते एकत्र वसति सति तत्सहवासिनो मातापित्रादयो दुर्मनसस्तदनिष्टाशङ्कया भवन्ति तस्मिँश देशान्तरं गच्छति तत्सहवासिनः सुमनसो मवन्ति । तथाप्रकारच पुरुषजातोऽल्पेऽप्यपराधे महान्तं दण्डं कल्पयतीति, तदेव दर्शयतिदण्डपार्थी स्वल्पेऽप्यपराधे कुप्यति दण्डं व पातयति, दण्डेन गुरुको भत्रति तथा दण्डपुरस्कृतः - सदा पुरस्कृतदण्ड इत्यर्थः । 'स्लो' मिति अहितः प्राणिनामहितदण्डापादनात् तथा परस्मिन्नपि जन्मन्यसाबद्दितः, येनकेनचिनिमितेन क्षणे क्षणे सज्ज्वलतीति सज्ज्वलनः स चात्यन्तकोधनो बधबन्धविच्छेदनादिषु शीघ्रमेव क्रियासु प्रवर्त्तते, तदभावेऽप्युत्कटद्वेषतया मर्मोधनतः पृष्ठिमासमपि खादेतदसौ ब्रुयाद्येनासौ परः सज्ज्वलति, तदेवं तस्य महादण्डप्रवर्त्तयितुस्तद्दण्डप्रत्ययिकं सावधं कर्म बध्यते, तदेतदशमं क्रियास्थानं मित्रद्रोहप्रत्ययिकमाख्यातमिति । 9 अहावरे एक्कारसमे किरियाठाणे मायावत्तिपत्ति आहिज्जति, जे इमे भवंति गूढायारा तमोकासिया उल्लूगपत्तलहुया पवयगुरुआ ते आरिया वि संता अणारियाओ भासाओ विप्पउंजंति, अन्ना संता अप्पाणं अन्ना मन्नंति, अन्नं पुट्ठा + अन्नं वागारंति, अन्नं आइक्खियां अनं X "अन्ये पुनरष्ट क्रियास्थानमात्मदोष प्रत्ययिकमाचक्षते, नत्रमं तु परदोषप्रत्ययिकं, दशमं पुनः प्राणवृत्तिकमिति " हर्षकुलः । + यद्यपि दीपिका प्रसिषु सर्वास्वपि 'अनं पुण कृति अनं० ' इत्येवंरूपः पाठोऽस्ति मूले, परं सद्वृत्तिकमुद्रित प्रतिषु 'अनं पुट्ठा अनं० प्रत्येवम्भूतोऽस्ति, अर्थो दीपिकायामप्येवंविध पत्र विदित इत्ययमेव मूले निवेशितः ।
SR No.090470
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherMotichand Maganchand Choksi
Publication Year1962
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy