________________
******
kT44+न
***
1 ॥ १२२ ॥ राज्ञे समर्पितास्तेन,ते सर्वेऽभ्यस्तसकलाः । 'कुशाग्रीयधियां यस्माद्, बुद्धेस्सुकरं किमु ? ' || १२३ ॥ राज्ञा तुष्टेन | स प्रोचे, किं तुभ्यं दीयते वद ? । सर्वदानाधिकं येन, विद्यादानं त्वया ददे ॥ १२४ । साहसाङ्को नृपं प्राह, तदा स्वाभिमत | हृदि । शुल्कमण्डपिका-मुद्रा, मह्यमव् महीपते ! ।। १२५ ॥ राज्ञा तथैव तच्चक्रे, चक्रेतरहदा मुदा । लोकानां तेन दानार्द्ध, र त्यक्तं युक्तिमता सता ॥ १२६ ॥ ऊचे चेति पर दान-चौरी कार्या न सर्वथा । यः करिष्यति सर्वस्त्र हुर्ताऽहं तस्य निश्चितम् ||
॥ १२७ ॥ पुम(न)येथेप्सितं दण्डं, करिष्ये तस्य तत्क्षणम् । इति रीतिकृते बन्धे, निबन्धेन स निर्वहेतु ॥ १२८ ॥ अत्रान्तरे परं | चोरो-पटुतैस्तत्पुरीजनैः । राम्रो विज्ञप्तमाश्वेत्य, सर्व चौरविचेष्टितम् ।। १२९ ॥राज्ञाऽऽहूतस्तलारक्षो, रक्षितुं लोकमक्षतम् । प्रोचे |५ च रे तलारक्ष !, चौरं द्रक्ष्यति नो कथम् ? ॥ १३० ।। स प्राह हे महाराज !, पश्यन्नपि दिवानिशम् । न चौरं कापि पश्यामि, मूढवद् नम तत्परम् ॥ १३१ ॥ स्वयमेव ततो राजा, चौरनिग्रहहेतवे । प्रच्छन्नं निर्गतोऽभ्राम्यत, पुरे वायुरिवान्तरः ।। १३२ ।।
नान्यायी, श्रमक्रमवशादसौ । अदृष्टा चौरमागार-मागादात्मवदेश(प)यम ।।१३३॥ इतश्च मन्त्री सन्मन्त्रः, समा- IC गत्य प्रणम्य च । व्यजिज्ञपन्नृपं देव !, मा विषीदेति तं वदन । १३४ ॥ दिनपञ्चकमध्ये तं, ग्रहीष्यामीह चौरटम् । विडम्बनाई | मबुद्धे-नास्त्यसाध्यं प्रसिद्धितः ॥ १३५ ।। स चौरस्तु महाशूरः, प्रतिज्ञा मन्त्रिणोऽशृणोत् । रात्रौ मन्त्रिगृहे गत्वा, दत्त्वाऽपस्वापिनी पुनः ॥ १३६ ॥ विशेषामर्षवांस्तस्य, सर्वस्वं मन्त्रिगोऽग्रहीत् । ' दस्सयो दुर्धराः स्युर्य-नृणां विद्यावलोल्वणाः || १३७ ॥ युग्मम् । एवमन्ये घुधम्मन्या-स्तापसाधास्तदुयु(य)ताः । सर्वे विडम्बितास्तेन, मन्मथेनेव सर्वथा ॥ १३८ ।। अत्रान्तरे तु मकर- 1 दंष्ट्राला शु(श)म्भली सभाम् । समेत्य भूपतिं नत्वा-वादीदिति ससङ्गरम् ॥१३९॥ देवाहं महदुत्साहा, ग्रहीये चौरमारवत् ।
*