________________
प्राइ साइसौ(सिंहिका ।। ८८ ॥ आः ! पापव्यापसलापाद्, मगिी प्रविपद्य माम् । मद्य-मांसादिव वक्षि, विलक्षमसमञ्जसम् ? ॥ ८९ ॥ " सन्तस्त एव सन्तस्तु, शीललीलाकुलाः कुलात् । ये प्रतिपयनिर्वाह-साहसाङ्कसहाः सहाः ॥ ९० ॥" "ये है।
खलाः सुस्खला लोलाः, कोलायितकुलाकुलाः । ते पुनः स्वयचश्युत्या-हत्यात्याहत्यसंहताः ॥ ९१॥ एवं सत्यां तदा पद्मा िवत्यामत्यन्तनीमितः । वाणायां गणाराणगं, यज्जातं तद् वितन्यते ॥ ९२ ॥ अत्रान्तरे वरेण्याभिः, पोतदेवीभिरोच्यत । रे दुरा
स्मन् ! शिरःशूलं, पोतारूढः करोषि किम् ? ॥ ९३ ।। कुकर्म धर्मनिर्मुक्तं, शर्मभित कुरुपे रुपे । । ततो भवतु ते पोत-स्फोटः है संस्फोटक श्रियाम् ॥ ९४ ॥ ततः सम्पात-दुर्वात-महोत्पात-निपाततः । भग्ने पोते तु सा लेमे, फलकं पुलकाञ्चिता ॥९५॥ तद् सुजाभ्यामथादाय, समुदाय मुदामिव । तरीतुमब्धिमारब्ध, लब्धोधमवती सती ।। ९६ ॥ तत्राप्यत्रान्तरे दैवा-जवाजलफरेगुना । करेणोल्लालिता सोचैः, कन्दुकोहाललीलया ॥ ९७ ॥ अपतन्त्येव साऽऽकाशाद्, दधे विद्याभृता यता । ' प्रायः प्राणभृतां स्याता, दैवाद् द्वे सम्पदायदे ' ॥ ९८ ॥ विद्याधरोऽपि तां रूप-निरूपीकृतदेवताम् । निरूप्य प्रार्थयाञ्चक्रे, कामार्थ चाटु | पाटवम् ॥ ९९ ।। रूपमर्धश्रिया मिश्र, प्राप्तरूपे न्यरूप्यत । क्वापि स्यादश्रियामश्र-मेतच्छीता निदर्शनम् ॥ १०० ॥ सा तं विद्याधरं भ्राता, त्वं मेऽसीति वशीन्द्रिया । प्रत्यबोधि धियः शुद्धया, सुबोधो बोधवान् बुधः ॥ १०१ ॥ तदा विद्याधरेणापि, परितुटेन शिष्टवत् । अदृश्यकारिका वैरि-विद्योच्छेदकरी यथा ।। १०२ ॥ विद्या रूपपरावृत्ते-रेतत् तस्यायदीयत । वितेने तेन सा चेति, विद्याशक्तित्रयीमयी ॥ १०३ ॥ इत्थं सत्कृत्य तां भक्त्या, भ्रातृवद् भगिनीमिव । सं(सं)सुमारपुरोद्याने, स सबस्ताममूमुचत ॥ १०४॥"सजनः सुजनः पुण्यः, पण्डितः शीलमण्डितः । यत्र यत्र व्रजत्येवं, तत्र तत्र स पूज्यते ॥१०५॥1 साऽपि
-