________________
*
॥
*
मनाः । समवोचत् समाकार्य, कुतो यूयमिति स्वयम् ॥ १६४ ॥ स्थानायानसमाख्यान-कृते सुकृतिना कृते । प्रश्ने तेऽथाऽऽत्मगोपाय, किमप्याख्यन यथा तथा ।। १६५ ।। यतः- यदा न समयः स्वीयः, समुदेति मुदेनवत् । पद्माकरगिर स्वान्त, तावन्नोद्घाटयेत पटुः ।। १६६ ।। " यतः---" स कोऽपि सुजनो नास्ति, यस्याग्रे स्वाशयः स्फुटम् । प्रायशः कथ्यतेऽकथ्यो, निःश्वसन्नुच्छ्वसन्नपि || १६७ ।। " ततो धन्यपरीपृष्टे, स्पष्टे पुष्टेऽपि शिष्टितः। विमृश्याऽमृश्य चावश्यं, यत् किश्चिमोत्तरं ददुः ।। १६८ ॥ धन्यसाघुस्ततः साधु-शुद्धयाकर्ण्य सकर्णवत् । मामेते चेतसा नोप-लक्षयन्ति सपक्षकाः ॥१६९ ॥ एतके दु:खिता दुःस्था-वस्थाप्रस्थापितास्थया । स्वजनास्तेऽप्यजानाना, इस जानन्ति नैव माम् ॥ १७० ॥ यतः-- किं करोति नरोऽत्य(त्यु)
-दुःखदौर्गत्यसंगतः । ज्ञानं ध्यान गुणाधान, हीनं दारित्र्यमुद्रया ॥ १७१ ॥ " तथापि तु मयाऽऽतन्य, पितुर्वात्सल्यतुल्यकम् । | शनैः शनैः परीक्ष्यता-वेतयिष्ये ह्यशेषतः ।। १७२ ॥ भोजने स्वजने या(चा)त्र, घृतं स्नेहं नियुज्य सः । सर्वकर्मकरैः साक,
निरातकं गृहं ययौ ।। १७३ ।। ततः कर्मकरास्तत्र, सर्वे सम्भूय सर्वतः । परस्परं प्रजल्पन्त्य-नल्पजल्पविकल्पतः ।। १७४ ॥ * oll सर्वेषामात्मनामत्र, यदभूदाज्यमोज्ययम् । तदेतस्य कुटुम्बस्य, प्रभावः प्रभवत्ययम् ॥ १७५ ॥ युग्मम् ॥ पुनरन्येधुरागत्य, धन्यः | श्रेष्टिनमृचिवान् । भवतामस्ति शस्तत्वं, भोजने स्वजनैः समम् ? ॥ १७६ ।। श्रेष्ठी तु लज्जया सज्जः, किश्चिन्नाख्यत तदग्रतः ।
'प्रायः परं प्रार्थयितुं, सज्जिह्वा न प्रगल्भते ॥ १७७ ॥ ' धन्यः साधुस्ततोऽवादी-दनादीनवसद्वचाः । वक्राद् ऋते कुटुम्बस्य, | भाविन्यस्य निशान्धता ।। १७८ ।। इति संश्राव्य गेहेगा-दुपकारचिकीरसौ । प्रगेहाय द्वितीयेहि, तत्रामत्य स तानवक ॥ १७९ ॥ विशेषाच्छेटिन श्रेष्ठ-गिरा प्रीतिसुधाकिरा । जगाद सदयस्यान्त-स्तं प्रति ज्ञातुमिच्छुधीः ॥ १८॥ भवतार
*
-