________________
धन्यं धामसमायातं, मालिकः सकुटुम्बकः । सचक्रे बहुमानादि-प्रदानेन प्रमोदतः ॥ १९८ ।। " यतः सिता मता हंसाः शिखिनश्चित्रिता यथा | जन्म मृत्युश्च सर्वत्र तद्वद् भोगाव भोगिपु ॥ १९९ ॥ एवं च विष्ठतस्तत्र, सुखाभिमुखतायु (जु) पः । धन्यस्य यदभूद् भव्यं भव्यं श्रयं तदुद्यते ॥ २०० ॥ अथ तत्र पुरे राज्ञः, श्रेणिकस्य क्षितिक्षितः । सोमश्रीनामतः पुत्री, मित्रीकृतरमाप्सराः || २०१ ॥ कनीयसी स्वसा चास्ति, शालिभद्रस्य भद्रः । सुभद्रानामसृच्छील समुद्रामुद्रचन्द्रिका ॥ २०२ ॥ सुता कुसुमपालस्य, तस्य पुष्पवती पुनः । अस्ति विस्तारिलावण्य - पुण्यपुष्पैकवाटिका ॥ २०३ ॥ इति तिस्रोऽपि ताः कन्याः, पुण्याः पुष्याहसम्भवाः । परस्परपरप्रीति - स्मृताः सख्योऽभवन् मिथः ॥ २०४ ॥ ताभिरभ्यधिकप्रीत्या, मन्त्रयते स्म सविस्म यम् । यदात्मभिर्वरस्त्वेको वर्तव्यो वरमूर्तिमान् ॥ २०५ ॥ यतो न क्रीडितं व्रीडा--क्रीडमुत्पीडमीक्षितम् । भणितं गुणितं ज्ञातं, तत् सर्व फलवत् ततः ॥ २०६ ॥ एवं तासां च विसृ, धुसृणास्तित्विषाम् । याति काल: कलाकेलि-कलाकेलिकुतूहलैः ॥ २०७ ॥ पुष्पवत्यन्यदा सोम- श्रियाः सख्या विचक्षणा । समाख्यातवती वार्त्ता, धन्यस्य गुणसम्पदाम् ॥ २०८ ॥ तां श्रुत्वा राजसः साऽऽसीद् भावसद्भावभाविता । सानुरागाऽङ्गसंसङ्गि - ६ञ्चद्रोमाञ्चक चुका ॥ २०९ ॥ सत्यमेतद् यतः काम - शास्त्रेष्वेवं निरीक्ष्यते । प्रियश्रुतेः पुरुघ्रीणां कामभावा भवन्त्यमी ॥ २१० ॥ " सज्जनानां सुजनानां स्वजनानां गुणोतयः । सज्जनानां सुजनानां स्वजनानां श्रुतिप्रियाः ॥ २११ ।” सोमश्रीपयामास संख्या स्वां मातरं तराम् । साऽपि श्रीश्रेणिक क्ष्मापं, तचिकीर्षुद्रकर्षतः ।। २१२ ।। हृष्टः श्रेणिको राजा, तमाकार्य स्वकार्यवित । व्यलोकिष्ट पटिष्टश्री - सि(शि) - श्रीकृतपुरं चरम् || २१३ ॥ अथो मिथः समालोक्य, सर्वस्वजन मानवैः । मेलयित्वाऽय्यसामग्री - महोत्सव पुरस्सरम् ॥ २१४ ॥
I