________________
क
।
यतः-सुखस्य दुःखस्य न कोऽपि दाता, परां ददाति कुबुद्धिरेषा ।
पुरावा कर्म हमेष भुज्यते, शरीरहेतोस्त्वरया त्वया कृतम् ।। १८॥ अतो भवान खीहत्यापातक स्वशिरसि न गृहातु । कुमारकनकन्यजस्याऽनेन वचसा शान्तो राजा मकरध्वजस्तं प्रोवाचभवकथनेनैव सम्प्रत्येनां मुश्वामि, अन्यथेदानीमेव हन्याम् ।
अनया विडम्बनया राज्ञो मकरध्वजस्य चेतः परं चेखिद्यते स्म । अस्मिन्नेव विचार मग्नेन राजभवनमागतेन तेन तदेवाडहवः सुबुद्धिनामा स्वमन्त्री कथितः, श्रुतसकलवृत्तान्तेन तेन भणितम्-राजन् । ईदृशी स्नेहला पुत्री कथमभिध्यसि ? अहमपि वरं 2
दृष्ट्वाऽऽगतस्तस्याऽयं रोगो न साम्प्रतिकः किन्तु सहज एवेति दृश्यते, यतोऽस्य वषुषो दुर्वासना तथा निःसरति, यथा न तात्काद लिकीति सर्व प्रपश्चजालमिव मे प्रतिभाति । तेनेत्थं कथितेऽपि तस्क्रोधानलो न शशाम, एवं प्रतियोधितेऽप्यतुष्टे राजनि पुनः सचिवेनोक्तम् -यद्रोचते श्रीमते तन्क्रियतां परं प्रान्ते पश्चात्ताप एवं भवताऽऽलम्बनीयो भविष्यति । अत उक्तम्-सहसा विदधीत न क्रिया-मविवेकः परमापदा पदम् ।।
तृणते दि विमृदय कारिणं, गुणस्तुब्धाः स्वयमेव संपदः ॥ १९॥ तदैव प्रेमला मातुः सकाशमागता पर पूर्ववृत्तान्तश्रवणेन विषकन्येयमिति विश्वस्तया मात्रा सा किमपि न पृष्टा, का कथा सत्कारादिप्रेमकुशलप्रश्नानां ! यतो ' वामे विधो भवति विश्वमिदश्च वामं तदेव चांडालानाहाय प्रेमलां श्मशाने नीलाऽस्याः शीर्षच्छेदं कुरुत, इति राजाऽऽदिष्टास्ते त्वरित तां निगृह्य पलिताः । एतद्विलोक्य किश्चिद्वक्तुमप्यक्षमास्तत्रत्या जना आश्चर्यमीया ।