________________
मन्त्री राजा कनकरथस्तस्य महिषी चान्ये प्रेक्षका धावमानास्तवागतास्तत्र च महान् हाहाकारः प्रवृत्तः । कुमारस्थ मातापि पूकु. त्योवाच-है पुत्रक ! किमिदं जातं ? तव वधुर्विषकन्यैव ज्ञायवे। राज्ञा कनकस्थेनाऽपि प्रजाषितम्-हा देव ! मम पुत्रस्य तद्रूपं, यद् द्रष्टुं सुदूराज्जना आगता आसन्, तत्कय गतम् ? इयं कन्या तु मम पुत्रस्य वैरिणी प्रतिभाति । यदि पूर्वमेयेयं वार्ता ज्ञाता भवेत्तदा राजकुमारेण सहाऽस्याः परिणयो न कार्येत ! सर्व वृत्तान्तमाकर्णयन्ती प्रत्युत्तरमददाना प्रेमला मनसि विधारयामास-- अस्मिन् समये मम कथनमरण्यरोदनमिवाऽश्रवणीयं भविष्यति । मम सत्यमप्युक्तमनृतं मंस्थते तस्मात्सोपयोगः काल: प्रतीक्षणीयः । उक्तश्च-कालः समविषमकरः, परिभवसंमानकारकः कालः । कालः करोति पुरुषं, दातारं याचितारं च ॥१७॥
विद्युदिवेयं वार्ता मकरध्वजनृपस्य समीपं प्राप्ता सोऽपि तत्र धापमान आगतः कनकध्वजकुमारस्य कुष्ठं दृष्ट्वाऽऽश्चर्यमियाय । सरलस्वभावत्वादप्रपञ्चज्ञेन सर्वान् सान्त्वयत्ता तेन मकरध्वजनृपेण दुर्घटनाया वृत्तान्ते पुष्टे हिंसकमन्त्रिणोक्तम्-राजन् ! भयत्पुत्री विषकन्येव प्रतीयते ?, यां स्पृशत एव मे कुमारस्येयं दुर्दशाजाता। यस्त्वस्य सौन्दयं भवता दृष्टमेव, यस्याऽग्रे कन्दोऽपि त्रपामावह मासीत्स एव क्षणे पेमा दशां प्राप्तः । अस्तु, सम्प्रति स्त्रकन्यां गृहं सुनयतु, यथेच्छश्चास्या यत्कर्तव्यं तत्करोतु, चयन्त्वनेन परिणयेन महासंकटे पतिताः । वृत्तान्तमिदं शृण्वत एव दंदह्यमानकलेवरस्य राज्ञो मकरध्वजस्य नेत्राभ्यामश्रुधारा प्रातति स्म। तदानीमेवाऽसि
माकृष्प सां हन्तुमागतं मकरध्वज पुत्रीपितरं जामाता कनकध्वजकुमारः सविनयमुवाच-पूज्यश्वशुर । इत्थं क्रोधं न कुरुतामत्र || नाऽस्या दोषो न च मे पित्रो, सकलोऽपि दोषो ममैव पूर्वकर्मणोऽस्ति ।