________________
BREAK
उक्तञ्च-गतियुगमय चाप्नोत्यत्र पुष्पं वरिष्ठं, त्रिनयनतनुपूजां वान्यथा भूमिपातम् ।
विमलकुलभवानामङ्गनानां शरीरं, पतिकरकमल वा सेवते सप्तजिहम ॥ १३ ॥ इत्थं दूरवर्तिनी प्रेमलां वीक्ष्य कनकध्वजेनोक्तम्-प्रिये । इयहरे कथमास्से ? अत्राऽऽगच्छोपविश विषयभोगविलासच कुरु, अयम- Pil वसरो वारम्वारमागमिष्यति किम् ? शीघ्रगामिनोऽस्य यौवनस्य गमने कालो न लगिष्यति । अद्य प्रथमसमागम एवंदृशो वियोगः । कथं क्रियते ? त्वं सौराष्ट्राऽधीशस्याऽऽत्मजाऽहश्च सिंहलाऽधीशस्य कुमारोऽस्मि । ईदृश्योगस्तु द्वयोः पुण्योदयात्प्रसन्न एव विधातरि सञ्जातः । एवं प्रजल्पन स प्रेमलासन्निधिं गत्वा स्थितो यावत्तस्याः पाणिग्रहणायाऽचेष्टत, तावदेव सोचैरुवाच–अरे पापिन् । दुरे तिष्ठ, सम्प्रति ते सकलभेदो मया ज्ञातः, न च त्वं मे पतिरसि | स्वपति सम्यग् जानामि त्वन्तु कुतोऽपि मृषा मे गले पत-||
। परं परकीया स्त्री स्वकीया भवितुं नाऽई ति, तवाऽनयाऽज्ञानतया त्वयि मे दयोल्पद्यते । कुष्ठिनि सत्यपि वं| गुप्ताऽऽवासे कथं रक्षितः १ अहो ! श्लाध्यतमं ते सौन्दर्यम्, अतो बहिनिःसरणेनाऽवश्यं त्वयि कस्यचिद्दर्दृष्टिपतनशंकाऽऽसीत् । गच्छा:धुना तूष्णीं गमनेनैव ते कल्याणमस्ति । कपीनां मुक्ताहारपरिधानस्य वाञ्छा न कर्तव्या, चास्मिन् पर्यके चारूपवेशमात्रेणैव । त्वं मे पतिर्न भविष्यसि । देवमन्दिरस्य कलशोपवेशनेन काकः किं खगेश्वरो भवति ।
यत:-गुणैरुत्तुगतां याति, नोचैरासनसंस्थितः । सुमेरुशिखरस्थोऽपि, काकः किं गरुडायते । ॥१४॥ त्वं मे करं गृहीत्वा मां स्वपली कर्तुमिच्छसि, परं पूर्व मुकुरे सास्यप्रशंसनीय लोकहित स्त्रमुखन्तु पश्य ।
ॐॐॐॐ