________________
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य द्वादशपरिच्छेदे राजकुमारीप्रेमलाया मृत्युदण्ड:
विमलापुर्या आभापुरीमागते राशि चन्द्रे किं किमभूत्तस्य विमासा कथं वा तं मनुष्यात्कुक्कुटं व्यरचयतत्सर्वं गतपरिच्छेदे निर्दिष्टम् । तदनन्तरं प्रेमलालच्छया। किमभूत्सा च कथं लान्हिसाऽपमानिता बभूव, सदपि पाठकपरिचयाय लिख्यते— हिंसकमत्रिणि समागते कदुशब्दे प्रयुक्ते च राजा चन्द्रो यदा प्रेमलां परित्यज्य बहिरागतस्तदा तयाऽपि बहिरागमनवेश कृता, परं हिसकमन्त्रिणा तदैव वारिता सा तस्मिन् भृशं क्रुद्धाऽपि नववधूतया किमपि वक्तुं न शशाक | बहुकालं पत्युरागमनं प्रतीक्षमाणा सा बहुतरेकाले गये यदा स नाऽऽगतस्तदा मन्त्रिणा कपटः कृतोऽस्ति, येन सम प्राणनाथो मां त्यक्त्वा कापि गतोऽस्तीति मन्त्रिणः कपटं चिवेद | अनया विडम्बनया चेखिद्यमाना सा भविष्यं शोचन्त्यासीत्तदानीमेव हिंसकमन्त्रिणा शिक्षितः कुमारकनकध्वजस्तत्सन्निधौ प्रेषितः । दूरादेवाऽऽयान्तं तं वीक्ष्य पूर्वमयं मे पतिदेव एवागच्छतीति धिया दत्स्वागतार्थं सम्मुखमेत्य स्थिताऽपि समीपमागते कनकध्वजे ज्ञाताऽन्यपुरुषा सती दूरं गता । पश्चात्तयोक्तम् — को भवन किमर्थवाऽगच्छ भस्ति १ इतः शीघ्रं गच्छतु, अन्यथा द्वारपालो भवतोऽधमानं करिष्यति । स्मयमानेन वेनोक्तम् — अपि प्रिये १ एतावत्येव समये as freः किम् १ कि स्वपतिमपि काचित्कुलांगनैव विस्मरति १ अद्यप्रभृत्येवं करिष्यसि तदाऽग्रे किं भविष्यति १ सुरूपायां सत्यामपि त्वयि ज्ञानलेशो न ज्ञायते यतः सति ज्ञाने स्वपति का स्त्री विस्मरति । इत्थं वदन्नन्तरागतः स म समास्त । तथा दृष्ट्वा प्रेमला व्याघ्रदर्शनेन गौरिर्वत्र कोणे तस्थौ । यतो यथोत्तमानि पुष्पाणि शिरस्यारोहन्ति बने वा पतन्ति, तथैव पतिव्रतानामपि वपुषो द्वे गती भवतः - तस्य स्पर्शं पतिः करोति वाग्निः ।