________________
दशा भविष्यति, या ते पत्युरस्ति । शूलायमानेन वीरमत्या भाषितेनाऽविदूयमानाऽश्रुभाशं मुञ्चन्वी सा तदानीमेव तत उत्थायान्तर्गत्वा बहुरोदनेन शान्तिभाष । अथ कदाचिदपि पुनस्तत्र गत्राक्षे नागता निःसहाया सा पत्युः पुनर्मनुष्यत्वप्राप्त्याशयैव जीवितं दधत्यासीयत आशयैव पुत्र कलत्रबन्धु निमित्तमनुचितमपि कर्म समारभन्ते सर्वे जीवास्तव आशै सञ्जीवयतीतिवसम्-
यतः दन्तैरुचलितं धिया तरलितं पाण्यंधिणा कम्पितं दृग्भ्यां कुड्मलितं बलेन गलितं रूपश्रिया प्रोषितम् । प्राप्तायां यमभूपतेरिव महाघाट्यां धरायामिय-माशा केवलमेकिकैव सुभटी हृत्पत्तने नृत्यति ॥ १० ॥ एवमाशाश्रिताया अपि तस्याः पतिमन्तरा सर्व जगत् शून्यं प्रतिभाति रूप । तथा नीतिशास्त्रेऽपि कथितमस्ति -
यतः - चन्द्रं विना भाति यया न रात्रि-वैदैर्विहीना किल विप्रजाति: ।
सुदन्तहीनो न च कुञ्जरोऽपि, पत्युर्विहीना कुलजाऽपि लोके ।। ११ । अपिच - शस्त्रैर्विना स्याद्धि यथेह वीरः, सामन्तशून्यः पृथिवीपतिश्च । विद्युद्विहीनवटा तयैव, पत्युर्विना शून्यतमा च नारी ॥ १२ ॥
अतस्तस्यै भूषणमोजनादिकमपि न व्यरोचत, पुनरपि कदाचिद्वीरमती गुणावली कुत्रापि गमनाय कथितवती तदा तस्याः सादाय तथा सह गतासीत् । समये समये वीरमती तामाम्रश्न आरोस दूरदेशान्तरं गत्वाऽपूर्व कौतुकं दर्शितवती । अनिच्छयाऽपि वीरमती भयान्तन्मनोऽनुरञ्जयन्ती सातिप्रेमवशेन पत्युः संकटच्छिदं धर्मत्रवादिकमपि विधातुं लग्ना ||