SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ SEA .. . . ऽपि गमनं तस्याऽसुकरमेवाऽमृत् । इतः प्रेमलाऽपि प्रेमोन्मसा सती तत्करं गृहीत्वा पर्यकसमीप आकृष्य नीयमानं तं स्पाइँ समुपदेPal श्याऽगदत्-प्राणेश । मयो भूयः किमेवं क्रियते ? कदाचिद् बहिर्गम्यते, कदाचिच्चान्तरागम्यते तस्य किं कारणमस्ति ? प्रथमसमा- | | गम एवंदृशः कपटव्यवहारः कथम् ? एवंकृते सत्यावयोः प्रेमलता कथं विकासमेष्यति ? प्रथमग्रासे मक्षिकापाते भोजन पैकृत्य मेति । अतः स्वचित्तचापल्यं सत्यज्य सुखेनोपविशतु, अस्मिभिष्टमधुरसम्बन्धे कटुत्वं नोत्पादयतु, भवदुक्या मवद्रहस्यं किश्चि किश्चिज्जातवत्यस्मि, अतः सर्वथा भवद्गमनप्रतिरोधमहं करिष्यामि । हे प्राणनाथ ! मां निराशा कृत्या मदतोऽपि गमनं नोचितमई । ६ भवतो दासी भक्दाज्ञां सदैव पालयिष्यामि। हे मम शिरोभूषण ! हे प्राणाधार ! यदि मया कश्चिदपराधः कृतो भवेसहि स क्षन्तव्यः। स्ववैमनस्यकारणञ्च कथय ? उज्ज्वलं भवन्मुखचन्द्रमौदासीन्य कथं व्याप्नोति ? प्रिय ! क विमलापुरी कपाऽऽभापुरी ! सत्पुण्य संयोगादेव विधात्रावयोः संगमः कृतोऽस्ति । हातमवृत्ताह प्रार्थये-मय्येवं कथमपि मा व्यवहरेथाः, अनेन भवसोऽप्रतिष्ठा भविसा प्यसि । मम पित्रा करमोचनदाने चाऽऽतिथ्यकरणेऽपि त्रुटिर्न कुताऽस्ति । पुनरपि तत्कृता काऽपि न्यूनता भवेत्तहिं कथय, भवदभि लषितं पूरयितुमवश्यं यतिष्ये । भवतोऽकारणरोपो मे न रोचते, ईदृशी चार्तातु बालेभ्यो मुनिभ्यो वा शोभामावहति, भवांश्च गृहस्थो3 ऽतो भवता हास्यविनासादिषु मनो योजनीयम् । प्रिय । अतोऽधिकं कि कथयामि ? यदि भवान्ममाऽभ्यर्थनामस्वीकृत्य कथंचि गच्छेचदाऽऽमापुरीमन्विष्य तत्राऽहमप्यागमिष्यामि, दासी मृत्वा भवदङ्घिसेवया स्वजीरनं व्यत्याययिष्यामीति निश्चयं जानातु । प्रेमलावचः श्रुत्वा चन्द्रोऽवक्-प्रिये ! कदाग्रहं कथं करोषि १ तव मनोमा जानामि, परं किं कुर्यामसक्तोऽस्मि विधातुलसी न विलुप्यते । यतः-अघटितघटितानि घटयति, सुघटितघटितानि जर्जरीकुरुते । CHERE
SR No.090467
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1998
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari, Biography, & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy