SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ दुःखं वरं चैव वरं च मैक्ष्यं, वरं च मौर्य्यं हि वरं रुजोऽपि | मृत्युः प्रवासोऽपि वरं नराणां परं सदाचारविलङ्घनं नो८९ राज्ञा चन्द्रेणैवं स्वपृष्टमोक्षणार्थ मद्भ्रमचेष्टि, परं सिंहल पतेर्व्हिस कमन्त्रिणश्चाम्यर्थनाप्रान्ते परोपकारपरायणस्य सस्योरी कर्तव्याऽभूत् । यतः - न चन्द्रमाः प्रत्युपकार लिप्सया, करोति भाभिः कुमदावबोधनम् । स्वभाव एवोन्नतचेतसामयं परोपकारव्यसनं हि जीवितम् ॥ ९० ॥ अकुते कार्यरतनेन राज्ञा चन्द्रेण क्षणमालोच्य तत्प्रार्थना स्वीकृता । तेन मुदितयोर्नृपसचिवयोराधिरं गतः । तदानीमेव जन्यानां सज्जीकरणाज्ञा राज्ञा दत्ता । विविश्वायर रोदसी व्यानशाते हस्त्यश्वादयः सन्नद्धीकृताः, तदानीं तेषामारणातितरां दिशो जुगुञ्जः । अथ श्रीचन्द्रराजसंस्कृत चरित्रस्याऽष्टमपरिच्छेदे चन्द्रस्य विवाहवियोग विवाहार्थ दत्तवाचं तं चद्रनुषं स्नापयित्वाऽनम्बरभ्रमणादि परिवाप्य विवादयितुमागतानां जन्यादीनां सज्जीकरणानन्तरं यथासमयं सर्वे निवासतो निर्गम्य राजमन्दिरमभिप्रतस्थिरे । प्रेक्षकाणां समूहैर्मार्ग संबाधमासीद्वरं प्रेक्ष्य मुक्तकंठाः सर्व प्रशशंसुः । दिशः प्रदीपभासादितीरे, यतो जन्यागता निर्गतास्तत्र रात्रिरपि वासरायते स्म वियति कलानिश्चिनाऽपि द्विगुणा शोभा वृताssसीत् । वरस्थानं राज्ञा चन्द्रेण गृहीतं परं स्त्रीनृत्यगीव कुमारकनकध्वजस्यैव नामोच्चार्यते स्म जनवगैः । परं चन्द्रनृप एवोमवारूढ इति प्रेक्षकाणां दृष्टिः प्रथमं तस्मिमेव पतिताऽभूत् । कनकध्जादन्योऽयं पुरुषः प्रतिभातीति केचनोक्तवन्तस्तेषु I
SR No.090467
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1998
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari, Biography, & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy