SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ . . BREE कबन चतुरस्तानेवं व्याजहार-अस्माभिः स दृष्ट एव कदा १ पस्तुतोऽयं पूर्वश्रुताऽनुरूप एवास्ति । धन्यास्ति राजकुमारी प्रेमला। स्यैष वरो सम्धस्तस्य च माताऽपि धन्या यया कन्दर्पोपमस्सनयः प्रसूतोऽस्य पुरः सुराणामपि सौंदर्यमश्लाघ्यमस्ति । इत्थं सर्वत्र * विविधा चर्चा चलति का बहुतरजना सौन्दर्य पर्यशान मास । शनैः शनैरागता राजसौधसमीपमागताच तत्राऽऽगतेऽश्वा दवतारित करदेव श्वर्यथाविधि प्रपूज्य सादरं विवाहमडपं प्रयेश्यामास । यथासमयं तत्रैवाऽऽनायिता प्रेमलाऽपि वराभिमुखमुपवेशिता । तदा तयुग्म वीक्ष्य प्रेक्षक रतिमदनयोः शोभा समूहांचके । तद्वन्दं दर्श दर्श प्रमुदिता जना युग्मस्याऽखंडप्रेमरक्षणार्थ || प्रभुप्रार्थना कुर्वन्त आसन् । तत्कालमेव वीरमतीगुणावल्यो विवाहमंडपं प्रविविशतुस्ते अपि वरवध्यौ दृष्ट्वा मुदिते बभूवतुः । दुतमेव वेदीसमीपमानीय तयोर्यथाऽचारमुपयमः कारितः वैवाहिकविध समाप्ते गुणावल्या वीरमत्यूचे-मातः! किमेनं वरममिजानाति ? | र श्रीमत्या एवाऽयं पुत्र इत्यहं वेभि, तत्कथनमसंभवं मन्यमाना सा तदुत्तरं नादात् । परं गुणावल्याश्चेतोऽहिवेष्टितमिव जातं, तया पुनर्वभाषे- मातः! सावधानेन पश्यतु, ममोक्तमृतं विद्धि ममायं पतिदेवस्तेनैवोद्वाहोऽपि कृतोऽस्ति । प्रेमलाश्च मम सपत्नी विधाय | गृहं नेष्यतीति सन्देहो जायते, आक्योरिवाऽयमपि कथंचिदत्रागतो भयेत्तत्र विषये में सन्देहविन्ता चोत्पद्यते । बीरमत्योचे अयि मुग्धे ! कथमेवं शुभ्यसि ? चन्द्रस्त्वाभानगर्यो शयानोऽस्ति । असिान् भूतले चन्द्रादप्यधिको रूपवानस्तीति पूर्वमेव मया त्वमुक्ता, तस्येदमेव प्रमाणमस्ति । यतः-पदे पदे निधानानि, योजने रसकूपिका । भाग्यहीना न पश्यन्ति, बहुरत्ना वसुंधरा ॥ ९१ ॥
SR No.090467
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1998
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari, Biography, & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy