________________
अवनीश ! इग्दृष्टे श्रवणश्रुते च महदन्तरं भवति । एतैः श्रुतं कथ्यते, पर यदि मदीया भृत्याः पश्येयुस्तदा तथ्यं मस्ये । तदैव तस्य चर्चाऽपि कर्तव्या, नेदं कार्यमल्प यतोऽत्रैव कृत्स्नजीवनस्य सुख दुखे निभरे स्तः, ततोऽत्र सम्बन्धे पूर्णविचारः कार्यः। यतः-सगुणमपगुणं वा कुर्वता कार्यमादी, परिणतिरवधार्या पत्नतः पण्डितेन ।
अतिरभसकृतानां कर्मणामाविपत्ते-र्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ ८२ ॥ तस्मिन् काले ते व्यापारिणस्तत्रैवाऽऽसमतो मन्त्रिणो विचारं मत्वा स्वनिकट आहूतास्ते राज्ञोचिरे-भवद्भिर्मक कार्य कर्तव्यं भविव्यति, तदेतद् भवन्तो मन्त्रिभिः सह सिंहलपुरीं गत्वा राजकुमारमवलोक्य कन्यायोग्यं ज्ञात्वा श्रीफलं समर्प्य विवाह निश्चिनुयुस्तदा भरतोचिराय ऋणी भविष्यामि। तदा व्यापारिणो जगदुः-राजन् ! अल्पस्य हेतोर्भवत्प्रार्थनां विनाऽपि करणे नाऽस्माकं काऽप्यापचिरस्ति। यथेयं भवत्कुमारी सगुणसम्पन्ना तथा सोऽपि कनकध्वजकुमारस्तेन विधात्रा द्वन्द्वमिदं समकालमुदपादीति जानीमहे । मन्त्रिणो. ऽस्माभिः साकं प्रेषयन्तु कथंचित्कार्ये जातेऽतिहषों भविष्यति, सत्र यथासाध्यं यतिष्यामहे । तत्काल एव राजा चतुरश्चतुरमन्त्रिणो नियोज्य परेघवि व्यापारिभिः सत्रा सिंहलपुरी प्राहिणोत् । तत्र गते व्यापारिणः कनकरथनृपः स्वमन्दिरे तमिमित्तमावासं दचो. सममोजनादिभिरतिथिसत्कृति चक्रे । सन्ध्यायां सदवसरं प्राप्य मन्त्रिणस्तैापारिभिः समं राजसमीपमायन विविक्ते च व्यापारिणो राक्षेऽखिलं वृत्तं निवेदयामासुः-राजन् ! अनुपमलावण्या राजकन्या प्रेमलालच्छी विद्यते यो दृष्वाऽऽाताः स्मः । राजा मकरध्वजस्तां भवत्कुमारेण परिणाययितुमेतान् मन्त्रिणो भवत्समीपे प्रैपीत् । राजाऽपि सादरं तानुपधेश्य कुशलादिप्रश्नं पृष्ट्वाऽऽगमनप्रयोजन
ॐॐॐॐ