________________
-
RAJAXCRCITASASAY
मनाक्षीत् । तेष्वग्रणीः कुशलको मन्त्री प्रत्युत्तरं इदत्साह-सोरठदेशादापाता राजा मकरध्वजेन प्रेषिताः स्मः । अत्रस्पा वणिजो मम महाराजनिकटे भवद्राजकुमारस्य सौन्दर्य पशंसामकाऍस्तथैवाऽन्यैरपि श्राविता, अतस्तत्कथने विश्वस्तो राजा ईसकुल एक इंसस्य जनुर्मवतीत्यमन्यत । अस्य कुमारस्यानुरूपा तत्पुत्री रूपवती विदुषी चाऽस्ति सेनाऽनयोविवाहसम्बन्धं स्थिरीकर्तु भवत्सेवायामु-18 पस्थिताः स्मः । अस्माकमऽनुमत्याज्यं सम्बन्धः सनथा योग्यो ज्ञायते । राजकुमार्या रूपलावण्यगुणावस्थादि सर्वथैव कुमारस्यो। पयुक्तमस्ति । अस्माकं महाराजः सोरठदेशस्य भवांश्च सिंहलदेशस्य राजाऽस्ति, ततो युवयोरय सम्बन्धः कथमप्ययोग्यो नाऽस्ति । भवन्तं प्रति ममाऽनुरोधोऽस्ति, यदेतत्सम्बन्धार्थ स्वाऽनुमति दवाऽस्माकमन्त्रागमनपरिश्रमं सार्थक करोतु । मकरध्वजमत्रिणः कथनमाकर्ण्य मम कनकस्थराजेनोक्तम्-भवतः सर्व कथनं ज्ञातमभूत्परमीदृक्कार्येषु शीघ्रता नोधिता धैर्यस्य सुफलं सदैव का मधरं च भवति । अतोत्र भवन्तस्तियन्त ममाऽऽतिथ्यश्च महन्त, क्यं सम्यग विचार्य भवत्प्रार्थनाया उत्तरं दास्यामः ।
यतः-कर्मायत्तं फलं पुंसां, बुद्धिः कर्मानुसारिणी। तथापि सुधिया भाव्यं, सुविचार्येच कुर्वता ||८३॥
एतन्निशम्य मन्धिणोक्तम्-पृथ्वीश ! मामको महाराजोऽस्मिन् सम्बन्धविषयेऽत्युत्सुकोऽस्ति, अतस्तेनैतावदरं वयं प्रेषिताः, सम्प्रति ममैनां प्रार्थनामस्वीकृत्याऽस्माकं नैराश्यकरणं नोचितमियं मेऽभ्यर्थनाऽस्ति । तदा राज्ञा भाषे-भवदुक्तियथार्था परं सम्प्रति कुमारोतिलघुवयस्कोऽस्ति सेनावावस्थायामियं चर्चा नोचिता, यदा वर्धिष्यते तदा द्रक्ष्यतेऽधुना तु तेन प्रासादोऽपि न घ्टो निरन्तरं गुप्तगृहमेवाऽधितिष्ठति। मया कोडे कुत्वा कदापि लालितोऽपि नास्ति, पुनर्मतां राजकुमारीमपि नाद्राक्षमतः कन्यामनवलोक्य विवाहः कथं भवेत् । यदि भवन्महाराजोऽरं परिणाययितुमिच्छुकोऽस्ति सहि परान्तरमन्बेष्टुमर्हति, न मे तत्र