________________
द्रष्टुं सहस्रांशुरप्यसक्तस्तमवलोकितु वयं के इति मत्वा सर्वे सन्तुष्यन्ति स्म । स चिरजीवी भवतु कदाचिद्दर्शनं भविष्यत्येव, यतः शास्त्रेऽप्युक्तम्
गोपनीयं प्रयत्नेन, रत्नं हि विबुधैः सदा । परकीयं हि तद्दृष्ट्वा द्वेषं यान्ति नराधमाः ॥ ८१ ॥
इति कुमारस्येत्थं रक्षणं युक्तमेवास्ति, शनैः शनैरियं वार्त्ता देशान्तरेऽपि प्रससार | परमस्य गुप्ततत्वस्य रहस्यमन्ये कथं जानन्तु ! कियत्कालाऽनन्तरमस्थां विमलापुर्वी सिंहलपुरस्था व्यापारिणो व्यापारार्थमागताः । अत्रैकस्मिन्नहनि ते राज्ञा मकरध्वजेन सह मिलिं तस्य राजपरिषदि समुपस्थिता आसन् । राजाऽपि तेषां यथोचितं सम्मानं चकार तदैव स्वपितुरङ्कं प्रेमला लच्छी समागत्याऽध्यास्ते स्म । तस्या अलौकिकं सद्रूपलावण्य चातुर्यादिकं पश्यन्तरत आश्चर्यमीयुः । राजा मकरध्वजस्तेषां देशस्य राज्ञश्र नाम पप्रच्छ त उचिरे - सिन्धुदेशवास्तव्या वयं तत्राऽलकापुरीतुल्या सिंहलपुर्य्यरित । तत्र कनकरथनामा राजा राज्यं शास्ति तस्य कन्दर्पोषमः कनकध्वजनामा कुमाशेऽस्ति । तस्य गुप्तमन्दिरे रक्षणं क्रियते, जनास्तस्य दर्शनार्थं प्रतिदिनं लालायिता भवन्ति । परं बहिरानयनेन कदाचित्केषांचित्कुट्टपातो
दिति शंकया समयो नृपो बोभूयते । अतोऽद्यावधि केऽपि न तं शैक्षन्त परं स सौन्दर्येण मदनोपभः श्रूयते । इति वणिजां वचो निशम्य राजा मकरध्वजो मुदमगातेभ्यो वस्त्रादिकं दवा विसर्जनानन्तरं सचिवमाकार्य तस्मै कनकध्वजस्य रूपवर्णनं श्रावयति स्म । एतत्कथनकारणं पृष्ठे मन्त्रिणि नृपो जमाद- बहुदिनेभ्यः प्रेमलावा बरोऽन्विष्यते, तज्ज्ञातं नाऽस्ति किम् ? अद्याssकस्मिकममुसुदन्तं श्रुत्वा मम विचारोsयूयदि नैगमोक्तमृतं स्यातर्हि तेनैव कुमारेण सह तस्याः परिणयं कथं न कुर्याम् १ तादृशवरप्राप्तिस्त्वसमवै