________________
*****R***-E
अतो हे राजन् ! त्वया चिन्ता न कर्तव्या । राजाऽप्यचिन्तयत्-अपुत्राऽपेक्षया कृष्टिनोऽपि पुत्रस्य भवन केनचिदंचन युक्तमेवाऽस्ति, ततो देवी तदानीमेवा सर्दधे । राजाऽप्याराधनासमाप्यनन्तरं मम समीपमियाय, स प वरप्राप्तेरखिलं वृत्च निवेदयामास। तदा राजानं सान्वयम्भहमवादिषम्-प्रथम पुत्रस्तु भवतु, यदि तस्य कुष्ठो भविष्यति, तदा तस्य निवारणचेष्टाऽपि करिष्यते । ममाऽनया सान्त्वनया राश्यपि मुमुदेऽनन्तरं तस्मिमेव दिने राज्युदरे गर्भसंचारो बभूव । अतो राज्ञा यत्नतयैकत्र मन्दिरस्य गुमतले राध्यै वासव्यवस्था कृता, यथा कृपणस्य धनमधिधरित्रि जनैरदृश्यमान तिष्ठति, तथैव सापि तस्थौ । गर्भावस्थायां पुनस्तां केऽपि द्रष्टुं न प्रययुः, पूणे मासे राशी मन कहिन सूतं मधुये ! सम्मान सम्मादं श्रुत्वाशना परी मुदमाप, कतिचिदिनानि च महोऽकारि।
समन्ताद् वैजयन्तीतोरणादिभिः प्रतिगृह मङ्गलाऽऽचारैश्च नगरी शुशुभेतराम् । नागरिका राजसभामुपसृत्य राज्ञे वर्धापन ददिरे, || राजाऽपि तेग्यो यथोचित सरकारपुरस्कार वितीर्य तान सममस्त । द्वादशेऽहनि कुमारस्य कनकध्वजेति नाम चकार, परं स्वकर्मयो| गेन स जनिदिनादेव कुष्टरोगेण पीडितो भवितुं लमः । तदर्थ कृतोऽपि विविधोपायः सफलत्वं नेत् । आकरे रत्नानीव तत्र तलगृहे सद्यत्नेन कुमारो वृधे। सत्सनिधौ कपिलाधान्या विनाऽन्येषां गमनाऽज्ञा नाऽऽसीद, सैव कुमारस्य लालनपालनं कृतवत्यस्ति। शरीरदूषणेन कदापि पहिरनिर्गच्छन्तं कुमारं ज्ञात्वा जनैराश्चर्यममन्यत । यथा यथा कालो निरगच्छत्तथा तथा जनानां राजकुमारस्य दर्शनेच्छा धिताऽऽसीत् । अनेको जना वस्त्राभूषणादिकं गृहीत्वा राजसभामागत्य कुमारस्य दर्शनेच्छा प्रकटीचक्रिरे, परं ते सदैव
निराशा एव परावर्तन्त । तदा कुमारोऽसिसुन्दरोऽस्तीति सर्वानचकर्थ, केषांचिद्दईष्टिः कुमारोपरि मा पतत्विति जातु न निष्कास* यामि । प्रवृद्धः सन् यदा स निर्गमिष्यति, तदा तं सर्वे द्रक्ष्यन्त्येव, मम वाक्ये विश्वस्तास्ते सर्वेऽपि राज्ञो भाग्यवर्णनं कर्तुं लग्ना:-यं
-E%Ex