________________
पप्रच्छ अयि चन्द्रानने ! कथमौदासीन्यमेषि ? कि कैनाऽपि सामोल्लंघनं कृतं १ तर्हि वद, अवश्यं त त्वरित कठोर दंडयिष्यामि। | औदासीन्यस्य कारण शीघ्रं हि तदाकर्ण्य कनकायुदान-पापेश ! मनपातो मम कस्यापि पस्तुनस्त्रुटिनास्ति | केऽपि ममाजोग्लंघनं नाकार्षुः, पुनर्भवन्तमिव पति प्राप्य प्रत्यहं नूतनस्यैव वस्तुन उपभोगं करोमि । इत्थं सर्व सुखमेवाऽस्ति किन्तु । पुत्रमन्तरेण सर्वमपि सौख्यं दुःखीयते । तेन विना वन्यं कुसुममिव मे जीवनं निष्फलं शून्यं च प्रतिभाति ।
यतः-अपुत्रस्य गृहं शून्यं, सन्मित्ररहितस्य च । मूर्खस्य च दिश: शून्याः, सर्वजून्या दरिद्रता ॥ ७४ ॥ ___ अपुत्रस्य धनवतोऽपि प्रगे मुखदर्शनं जनैरशुभं मन्यते । यस्य गृहे भूलोठको रोदकोऽस्पष्टवक्ता मरिधूलिधसरितविग्रहेण क्रो-है। डस्थायी लगुडावं निर्माय रथ्यायामाक्रीडको बालो विद्यते, तस्यैव जीवन सार्थकं भवति । सुपुत्रेण कीर्तिरन्वयपरम्परा चैधते ।
यतः स एव पुनः पुत्रो या, कुलमेव न केवलम् । पितुः कीर्ति सुधर्म च, गुणांश्चापि विवर्धयेत् ॥ ७५ ॥
तत्प्रभावान् गताऽपि सम्पत्तिसयाति, वार्धके मुखं जायते, मरुभूमिवच्छुकजीवनेऽपि सुखधारा च प्रवहति । तथाविधमेकर - सुतनयं विना ममाझं रिक्त गृहश्च शून्यमस्ति । हे प्राणनाथ ! अनयैव चिन्तया चिन्तिताऽस्मि, नाऽन्यत्किञ्चिदःखस्य कारणमस्ति ।
एतनिशम्य राजा प्रावोचत्-प्रिये ! स्वया हृदश्चिन्ता निष्कासनीया, मन्त्रवन्त्राधनुष्ठानेन पुत्रप्राप्त्यर्थ यथाशक्यं यतिष्ये । यतः कार्यार्थ प्रयत्नमात्र लोकसाध्य फलप्राप्तिस्तु भाग्यानुसारिणी भवति ।
यतः-औषधं मन्त्रवादं ष, नक्षत्रं गृहदेवता । भाग्यकाले प्रसीदन्ति, चाभाग्ये यान्ति विक्रियाम् ॥७६॥