SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ C RECERCORRECORREC चन्द्रनरेन्द्र ! सत्यं भवान् गुणागारोत्राथ समागत्याऽस्मान् सनाथानकरोत् । अधुना श्रीमतामागमनेनाऽस्माकं महती चिन्ता दूरमगमत् , वयं द्वितीयाचन्द्रपद् भवदागमनं प्रतीक्षमाणा आस्म । सम्प्रति दयां कला सिंहलपुरराजस्य समीपं चलतु, सस्यावासच | पुनातु । प्रतीहारस्यैतद्वचनं श्रुत्वा राजा चन्द्रः स्वान्ते चिन्तितवान्-अहो ! महदायर्यमत्यदयं मामेव नो किन्तु ममाख्यामपि वेत्ति, परं भ्रान्तोऽयमिति में प्रतिभाति । कचिदन्यं चन्द्र प्रतीक्षेतद्ब्रमेण मया सहेत्थं वदेदित्यपि संभवति, एतद्विचार्य नरेन्द्रेण चन्द्रेण जगदे-हे द्वारपाल ! चन्द्रस्त्वाकाशे वसति, पुनस्त्वं केन वार्ता कुर्वमसि ? अस्यां नगर्या मे महत्कार्यमस्ति, मतो मां [* मा वारय, इत्थं कचिदज्ञात्वा रोधनं नोचितम् । बद्धाञ्जलिना द्वारपालेनोचे-हे आभानरेन्द्र ! भवानात्मानं कथमपलपति ! कि रत्नं जास्यप्पलक्षितं भवेत् ? कस्तूरीगन्धः केनचित किमाच्छाधते ? नाहं भ्रान्तः किन्तु सम्यगकागच्छम् । यत:विषमस्थितोऽपि गुणवान्, स्फुटतरमाभाति निजगुणैरेव । जलनिधिजलमध्येऽपि हि, दीप्यन्ते किं न रस्नानि॥६७ असो भवानेव चन्द्रराजाऽभिध आमानरेन्द्रोऽस्ति, एवमुक्त्वा द्वारपालस्तस्य करें गृहीत्वाऽऽत्मना सह गन्तुं सविनयं तमनु- IN रुध्यते स्म । तदा राजा हस्तं मोचयनुराच-प्रातः ! हस्तं कथं गृह्मासि ! त्वया यद् वक्तव्यं तद्दरादेव कथ्यताम् । मया त्वं विक्षिप्तचेता इत्र लक्ष्यसे, यतस्त्वं मां चन्द्रराज मत्वाऽऽत्मना सह पलितु दुराग्रई करोषि मे मिथ्यावल्गनस्य प्रयोजन नास्ति। व्यर्थ मा त्वमस्मिन् संकटे पातयसि त्वं द्रव्यामिलापी चेत्तदपि दातुमुत्सुकोऽस्मि, परमित्थं व्यर्थ मां निरुध्य मे समयं निष्फलं | मा कुरु । अधारण्ये मे बहुकालो व्यतीयाय, सतश्चिन्तिता मे प्रसूमो प्रतीक्षमाणा भवेत् । द्वारपालोजादीत-राजन् ! इतोऽष्टा PORARESS
SR No.090467
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1998
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari, Biography, & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy