________________
स्ट
***
दशातयोजनदूरवर्तिनी भवद्राजधानी विद्यते, पुनरत्र कथं कुत्र वा भवज्जननी भविष्यति ? रुपयेत्थं मां नो सन्देहे पातय, मे च K मा क्रुध्यतु । यदि भवादृशाः प्रतापिनो मिथ्याभाषिणो भवेयुस्तहि कथमियमचला संसारभारं रिभृयात् ।। यता-जेण परी दूमिजह, पाणिवही होइ जेण भणिएण।अप्पा पडइ अणस्थे, न छु तं जपंति गीअत्या॥३८॥
राजन् ! मादृशानां जीवनं भवादृशानामुत्तमपुरुषाणां सेवां कुर्वदेवागमचस्मादित्य भ्रमपूर्णवृत्ते कदाचिदपि नागन्तुं | शक्रोमि । मम प्रभुरावश्यककार्यवशाच्छ्रीमता सह संगन्तुमिच्छति, अतो मे प्रार्थनामुरीकृत्य मया सहेतु चेष्टताम् । इदानी राजा चन्द्रोऽतीव संकटेऽपतद् चीरमतीगुणावल्यौ तस्मिन् कालेऽतिदूरवर्तिन्यो नास्तामतो राज्ञो मनः समयमासीघदेन विवाद ते शृणुयातां चेदन्यस्मादन्यं भवेत्ततः स मौनेनैव द्वारपालेन सह गमनमेव स्वीचकार, तेन प्रहष्टमना द्वारपालः सहैव वेन सिंहलपुराधीशस्य सौध वाज । मार्गस्थाः सर्वे कर्मचारिणो नम्रशिरसस्त प्रणेमुस्तेन राज्ञश्चन्द्रस्य मनसि शंका वर्धमानाऽऽसीत् । अप्रत्यानां जनानां मया सत्रा कथं परिचयः १ माम्प्रत्येते कथमादरश्चादर्शयभिति तस्य कथमपि विदित नाऽभूत् । शनैः शनैर्नेगरस्य द्वितीयं द्वारमगमदत्रस्था अपि जना राजानं प्रणम्योचिरे-हे राजन् ! स्वागतं वः, सिंहलन्यो मम प्रचर्मवन्मार्गमेव प्रतीक्षते । यथा चक्रप्रकटनेन पक्रवर्तिनो मनोरथाः सफलीभवन्ति, तस्य च नवनिधीनां प्राप्तिर्भवति, तथैव मम महाराजस्य भवतः समागमेन कार्यसिद्धिर्भविष्यति।। राजे चन्द्रायेदं कृतं नारोचताऽतस्तस्यौत्सुक्यमेधितमासीत्स च रुष्टः सन् ममापे-यूय मां चन्द्र कथं जानीथ ? यथा धत्तूरभक्षकाणां सर्वत्र हिरण्यमेव दृष्टिगोघरं भवति, तद्ग्रहणार्थश्च ते धावन्ति, तथैव युष्माकमपि परितश्चन्द्र एवं नेत्रपथमारोहति, भक्तां
क