________________
देव निरीक्ष्य बद्धाञ्जलिर्गुणावली चचक्षे- प्राणनाथ ! अद्य शीघ्रमेवाऽऽयान्तं श्रीमन्तं विलोक्य मे परमानन्दो मनमस्ति । किन्त्वोदासीन्यं कथं लक्ष्यते ? अस्ति सौमनस्यं किम् ? राजा चन्द्रोऽगदत्- प्रिये ! अनया पृष्ट्या दावेन चाऽद्य समयात्पूर्वमेव सभाया विसर्जनं कर्तुमभव, तस्मादेव कारणात्स्वास्थ्यमपि समीचीनं नास्ति । राज्ञो वचनं श्रुत्वा गुणावली सत्वरमेव सुकोमलां शय्यां कृतवती, शीतनिवृत्यर्थं राजा श्रवणे पत्रा तस्यां विश्रामं कर्तुमलगत् । गुणावली च तेन कस्तूर्यादिमिश्रितं ताम्बूलमखादयनानाविधानासवानपाययत्, नारायणादिकं तैलखाऽमर्दयतेन शीघ्रमेव राजा शीतरहितोऽभूत् ।
अथ गुणावलीकृत पादसंवाहनादिभिर्लब्धस्वास्थ्यो नृपो निद्राकल्पमाष । गुणावल्याश्रेवस्तु दोलायमानमिवासीदेव, ततः क्षणं विरामं विरामं पश्यन्त्यप्यासीत्, यदयं शेठे जागर्ति वा, इत्थं शनैः शनैः सन्ध्याऽपि समागता । गुणावली सम्प्रत्ययस्थिरतयेतस्ततोऽवलोकयन्त्यस्ति परं राज्ञः सन्ध्यालायां निद्रा कुतः १ गुणावलीं तथा विलोक्य संशयमगमत्तेन स जाग्रदपि नेत्रयोमीलनेन निद्रित इवाऽलक्ष्यत स च मनसि विचारयामास सुशीलापीयं दुःशीलायते केनचित्कारणेनात्र भवितव्यम् । कुसंगेन भ्रष्टेयमिति प्रतिभाति, कुसंगात को भ्रष्टो न भवति १ । उक्तमपि -
कुसंगतेः कुबुद्धिः स्यात्, कुथुडे: कुप्रवर्तनम् | कुप्रवृत्तेर्भवेजन्तु-र्भाजनं दुःखसन्ततेः ।। ६ ।। अतोऽन्यस्यापि प्रेमणि निबद्धा भवेदिति संभवोऽस्ति यतः कुसंगाद्योषितामीदृश्येनावस्था भवति । गुणावल्याचेतस्यपि कृमत्युयुगमेन सा व्यभिचारिणी भवेदत्र किं चित्रम् १ अस्याचापल्येन कुत्रचिदियं गन्तुकामेति प्रतीयते । एवं राजा चन्द्रो विविध वितर्क कुर्वभासी गुणावच्या लीलां निरीक्षितं निद्रितश्चास्मानं दर्शयितुं नेत्रे निमील्य निद्रामुद्रां जग्राह । तेन च राजा गाढनिद्रया