________________
वीरमत्यचे-वधु ! त्वमस्य विषयस्य चिन्ता वृथा मा कृथाः । यद्यदहं कथवामि तत्तत्कुरु मद्विधायाश्वापूर्व चमत्कारं पश्य । अइमिदानीमेत्र तथा करोमि, यथा स निश्चितसमयात्पूर्वमेव सभातः समागमिष्यति । अनन्तरं केनचिदुपायेन तं स्वापयिष्यामि, तवाभिलषितञ्च सेत्स्यति । यदा स शयिष्यते तदा त्वया मत्समीपे समागन्तव्यम्, पुनरहं सर्व साधु करिष्यामि । इत्थं गुणावलीं प्रविध्य वीरमती स्वमन्दिरमाजगाम, तदनन्तरं गुणावली स्वान्ते विचारयामास-मातरि तथ्यमीदृशी विद्या भविष्यति न वेति ? सातु महतीं वार्ता करोति, परं तस्यां में विश्वासो न मते । वस्तु देव यद्य राजसभातः शीघ्रमेवागच्छेत्तदा तस्या वचनं तथ्यमेव भवितुमईति ।
तो गुणावलीत्थं तर्कवितर्क कुर्वेत्येवासीताव गृहोपविष्टा वीरमती काञ्चिद्विद्यां साधितुं लग्ना । दुतमेव तस्याः साधनेन कथिदेवः प्रादुर्भूय तामुवाच - किमर्थ ममाराधनां करोषि । वीरसती प्रोवाच- हे देव ! निष्प्रयोजनं कष्टं नाऽददाम् । अहमिच्छामि, यदचैव भवस्तथोपार्य करोतु, यथा मे पुत्रो निर्धारित समयात्पूर्वमेव दिवसे राजसभातः समागच्छेत् । एतनिशम्य देवोऽगादीत्एतदर्थमेव स्वयाऽहमाकारितः १ मदर्थमेतत्कार्य दुष्करं नास्ति। सम्प्रत्येव तथोपार्थं करोमि, येन तव सुतः सभां विसृज्याऽविल
मेवागमिष्यति । एवं कथयत्र स देवस्तत्क्षणमेव वर्ष मित्र समयमकरोत्तस्मिन् समयेऽन्तरिक्षे श्यामीभूताऽघटा वितेने । कानने वर्दिणा नृत्यन्तः के कामकार्षुर्वृक्ष प्राप्य लतेत्र व्योम्नि विद्युत्प्रससार सहैव स्तनिवेन मुसलधारा वृष्टिः पपात । तेन च सर्वदिक्षु ध्वान्तो व्यानशे सर्वे स्वगृहगमनापाऽधीरा अभूवन्, राजा चन्द्रोऽपि दुर्दिन निरीक्ष्य शीघ्रमेव समिति विससर्ज । अनस्तमित एव मानौ गुणावली मन्दिरमाजगाम तेन कारणेन गुणावली परमाश्रर्चमियाय, सा च वीरमत्याः कथनेऽतीव श्रद्धावती बभूव । पति