SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ | प्यप्रसस्रो न च भवेत् । गुणावल्या एतद् वचनं श्रुत्ता वीरमती मनसि निश्चिक्थे, यदियमिदानी सर्वया मम जाले नद्वाऽमवदिति साभाणीत-वधु ! मत्समीपेनस्वापिनीनाम्नी विधा वर्तते यया नगरस्थान् सर्वानपि प्राणिनो जडानिव विधातुं शक्नोमि, का, वार्ता चन्द्रस्य वशीकरणे ? तस्य भयन्तु त्वया सर्वथा मानसान्निासार्यमेव । अस्तु, यदहं कथयामि तच्छृणु-अधैव यदि ते ५ दर्शनेच्छा भवेत्तदा तदर्थमप्यह प्रसक्ताऽस्मि । इतोऽष्टादशशतयोजनदूरे विमलापुरीनाम्नी नगर्यस्ति, तत्र महाप्रतापी मकरध्वज नामा नृपती राज्य शास्ति। तस्य प्रेमलालच्छीनाम्नी परमलावण्यवती तनयाऽस्ति, तथा सह सिंहलपुरस्य कनकध्वजनाम्नो राजकुमारस्य परिणयोऽद्यैव रात्रौ भविष्यति,यस्य दर्शनीयतरो महोत्सवो भविष्यति,अतो यदि ते दर्शनेच्छा वर्तते तर्हि वयं सन्जिता 18 भवेम । एन मला गुमाली दर्शा लामाविता भूत्वा पोरमतीमवोचतु-मातः! निःसन्देहं भवत्या गुणानां पारो नाऽस्ति, भवा- 18 दृशी श्वश्रः पूर्वजन्मसुकर्मणैव मया लब्धा। श्रीमत्योक्तमहोत्सवस्य दर्शनेच्छा मां नितरां बाधते, किन्तु दैवीशक्ति विनाऽतिदूरगमने कथं वयं समर्थाः स्याम ? हसन्ती वीरमत्यचकथन-बध! किमनेनैव काठिन्येन चिन्तिता भवसि ? कथमपि त्वं मा चिन्ती: 18 यतो मम पार्थे गगनगामिनी विद्याऽस्ति, तस्या एवं प्रभावाद् रात्रावेव लक्षयोजनमपि गन्तुं पास्यामि, ममैतन्मार्गन्तु पदप्रमाणमपि नास्ति । गमनगामिन्या विद्याया वृत्तं श्रुत्वा गुणावली महानन्दभरेण विचकास तयोचे-साधु साधु सर्वोत्तमेयं विधा वर्तते परमस्ति साम्प्रतं पाधको यन्महाराजोऽधुना सभां गतोऽस्ति, सन्ध्यां यावत्तत्रैव स्थास्यति । तदनन्तरं सान्ध्यं कर्म समाप्य प्रथमयाभव्यतीतायां निशि स मम हर्म्यमायास्यति, पथात्प्रहरस्तु वार्तालापेन हास्यविनोदेन च संसरिष्यति, ततो निशा स्वप्स्यति पुन: प्रहरं पाचच्छयित्वा सूर्णमेवोत्यायाऽऽसिच्यते । एतेन मेऽवकास एव न मिलिप्यति, अतः कदाऽहं श्रीमत्या सह गमिष्यामीत्याज्ञापय ।
SR No.090467
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1998
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari, Biography, & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy