________________
राजमः
१८ ॥
समर्थाऽस्मि । आकाशगामिन्या विद्यया वयं रात्रावेवातिदूरं गत्वा ततः प्रावरनुत्थित एव जने कौतुकं दृष्ट्वाऽगन्तुं समर्थाः स्मः । marita fearedi चन्द्रस्त्वेतां वार्ता ज्ञास्यत्येव नहि ।
यतः -- षट्कर्णी भिद्यते मन्त्र, चतुष्कर्णस्तु धार्यते । द्विकर्णस्य तु मन्त्रस्य, ब्रह्माप्यन्तं न गच्छति ॥ ५८ ॥
यदि कदाचिज्ज्ञास्यत्यपि तदा भयस्य कारणं नास्ति यतो मशकानां मयारकोऽपि गृहं त्यजति ततो निश्चिन्तं त्वया स्थातव्यम् । वीरमत्या जल्पनमाकर्ण्य गुणावली प्रससाद तस्याः साहाय्येन नवं नवं कौतुकं देशादिकञ्चावलोकितुं शक्ष्यामीति तदानीं गुणावली विश्वस्ता बभूव । एतत्कार्यमनुचितमिति जानत्यपि चन्द्रकुमारो मां बाधितुं नालं मविष्यतीत्यपि सा मनसि निरदीघरत् । यतः– अनृतं साहसं माया, मूर्खत्वमतिलोभता । निःस्नेहस्वनिर्दयत्वे, स्त्रीणां दोषाः स्वभावजाः ॥ ५९ ॥
अतः क्षणं विश्वार्य सा वीरमतीं जगाद - पूज्यमातः ! महन्तु यथास्थाने यथोचित कार्यकर्तव्यतत्परायां श्रीमत्यामेव निर्मराऽस्मि । भवत यावन्मम रक्षणाय जागरूकाऽस्ति तावत्केभ्योऽपि साध्वसस्य मय्यवकाशो नास्ति । यदि च मां कौतुकं दर्शयितुमिच्छसि तर्हि अमुचताऽस्मि । श्वश्रगुणोपेता भवती मत्कृते देवीस्वरूपाऽस्ति ।
यतः— अन्तः स्नेह्वादशनवसनस्नानताम्बूलवेषैः, संप्रीणन्ती दुहितरमिव प्रेक्षते या वधूटीम् ।
भक्तिग्राह्या मधुरवचना पुत्रि शिक्षासु दक्षा, श्वश्रूरेवं गुणगणयुता प्राप्यते पुण्ययोगात् ॥ ६० ॥ श्रीमत्या आज्ञोल्लंघनं स्वप्नेऽपि नाहं करिष्यामि । यद्यमैव मां तत्र नेतुमिच्छसि तर्हि तत्राऽपि न मे काऽप्यनुपपत्तिरस्ति । मदा नर्तनं स्वीकृतमेव तदाऽवगुण्ठनं किमर्थम् ? परं प्रथमं केनचिन्मन्त्रेण स्वपुत्रमेत्र वशीकरोतु, यथा स कांचि नावां न कुर्यान्मय्य