________________
दन्त्यो वा यो दास्यतस्ततो गता वीरमती विजनमिति ज्ञात्वा गुणावल्याः कर्णे पुनरपि दुष्टविषय विषप्रक्षेमारेमे । तयाऽवादि- प्रियस्तुषे ! त्वं राजपुत्र्यसि मम पुत्रस्ते पतिरस्ति, अवस्त्वं हर्षोत्फुल्लमानसा स्याः, परमहन्तु तव जीवनं माररूपमेव मन्ये, तव जीवने त्वदर्थमानन्दसारं किमपि न दृश्यते । तदा चकिता गुणाक्ली दीर्घमुच्छ्वसन्स्युवाच - पूज्यमातः ! किमिदमुच्यते ! मम कस्य वस्तुनस्त्रुदिरस्ति ? हस्तिनोऽश्वा रथाः स्वर्णानि रत्नानि वखभूषणादीनि सर्वाणि वस्तूनि वरीवति । जलमिच्छामि दुग्षमायाति, दासदासादयश्च बद्धाञ्जलयस्तिष्ठन्ति, परिवारा अपि सानुकूला वर्तन्ते, श्रीमत्याश्छत्रच्छायया पित्रोजनस्य चाभावोऽपि न ज्ञायते, मादृशी सुखिनी स्त्री भ्रमंडले कापि मवेभवेत्यहं मन्ये । वीरमती गुणावस्या इस्तमवलक्याsss - मयि पुत्रप्रिये ! वास्तविकं त्वमविसरलप्रकृतिरसि, संसारे एवाच्या अपि जनाः सन्ति, ये परौष्ठप्रस्फुरणमात्रेणाऽप्यभिप्राय जानन्ति ।
यदुक्तम् — उदीरितोऽर्थः पशुनापि गृह्यते, इयाश्च नागाव वहन्ति नोदिताः । अनुक्तमप्यूहति पंडितो जनः परेङ्गितज्ञानफला हि बुद्धयः || ४५ ||
परमेतावत्कथनेनापि मम बच्चनाभिप्रायस्त्वया नाऽङ्गायि । संसारे चातुर्यमेव प्रधानमस्ति मूर्खा अपि मनिनो रूपवन्तथ भवन्ति परं न ते कार्यसाधने समर्था भवन्ति, गुणिनस्तु गुणमेव पश्यन्ति । स्वयमपि ते गुणैर्पान्ति रूपातितां तांत्र गुणज्ञाः सेवन्वे । मतः--गुणाः कुर्वन्ति दूतत्वं दूरेपि वसतां सताम् । केतकीगन्धमाघ्रातुं, स्वयमायान्ति षट्पदाः || ४६ ॥
अतएव सुन्दरं सुरक्तमपि किंशुकपुष्पं निर्गन्यस्वामैव केऽपि स्पृशन्ति । त्वं केवलं वस्त्रभूषणादेर्वारणं मधुरभाषणत्रीष वेत्सि त्वगि