________________
तदा चन्द्रावती राजानमुपाच-प्राणनाथ ! मवनिश्चितदीक्षाग्रहणे नाहं वाधिकाऽस्मि, किन्तु मामपि चारित्र्यग्रहणायाज्ञापय । अहमपि श्रीमता सहैव प्रजिष्यामि, स्वजीवनस्यावशेषसमय धर्मकार्ये नियोज्यात्महितं साधयिष्यामि ।। यदुक्तम्-शशिना सह याति कौमुदी,सह मेघेन तडित्मलीयते। प्रमदा:पतिवमगा इति,प्रतिपलं हि विचेतनैरपि।३४
राजाऽपि चन्द्रावत्या इमां प्रार्थना स्त्रीचकार, द्वावपि मनसि काग्यमादधानौ चारित्रग्रहणे तत्परौ जाती। यत:-कश्चिन्तृजन्मप्रासादे, धर्मस्थपतिनिर्मिते । सद्गुणं विशदं दीक्षा-ध्वजं धन्योऽधिरोपयत् || ३५ ॥ ई. चन्द्रकुमारं वीरमत्यै समय, राजसिंहासने संस्थाप्य, विविधोपदेशं दवा, शुभमुहूर्ते राश्या सह शुभंकरी दीक्षा ललो ।। यता-दत्ते महत्वमृद्धयादि, जनस्य ननु जीवतः । महानन्दपदं नित्यं, दत्ते दीक्षा परत्र च ।। ३६ ॥
पश्चाद्राजर्षिर्वीरसेनः साध्व्या चन्द्रावत्या सह निरतिचारं चारित्रं प्रपाल्य, कालान्तरे श्रीमुनिसुव्रतस्वामिनोऽनुकम्पया | - केवलज्ञानं प्राप्य, सिद्धिसुखाधिकारी बभूव ।
___अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य चतुर्थपरिच्छेदे गुणावलीवीरमत्योर्वार्ता
पत्युः सपत्न्याश्च दीक्षाग्रहणानन्तरं स्वतन्त्रा वीरमती रहस्येकदा चन्द्रकुमारमायाज्योचत्-प्रियपुत्र ! स्वमिदानीं बालको-18 | ऽसि, पितरौ दुर्वहं राज्यभारं लपि न्यस्य जम्मतुः, परं मयि जीवितायो त्वया चिन्ता न कार्या, मयि घेतादृशी दिव्यालौकिकी है। शक्तिरस्ति, यया त्वत्कृते देवेन्द्रासनमषि समानयितुं शक्नोमि, सूर्यस्य रथ्य रेवन्ताख्यमश्वं तवावशालायां बन्धयेयं, निखिल