SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ राशा मनसि चिन्तितमहो ! जरयाऽहमपि न त्यक्तः, शिषेन कामदेवदाहः कृतः श्रूयते स च जरामपि दहेबेनदा न कोऽपि जरापीडित भवेत् । रजको यथा वस्त्रं सितीकरोति तथेयं जराऽपि केशान् शुक्लीकरोति । रे चित्त ! अतः सावधानं भव, अयमेव समवोऽस्ति । उक्तञ्च - यावत्स्वस्यमिदं कलेवरमूढं याचच दूरे जरा ?, यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो मद्दान्, प्रोद्दीप्ते भवने व कूपखननं प्रत्युद्यमः कटिशः १ ॥ २७ ॥ हिदा जराप्रकाश भषेतदा त्वयाप्यन्तः प्रकाशने सोद्यमेन भवितव्यम् । राज्यान्ते नरकं व्रजेदिति कथं त्रमनेन बद्धोऽसि हे आत्मन् !सबुकधनेन त्वया जराया उपदेश उपकारच सदैव हितकारितया मन्तव्यः । यतः- प्रथमे नार्जिता वा द्वितीये नार्जितं धनम्, तृतीये नार्जितो धर्मः, चतुर्थे किं करिष्यति ? ॥ २८ ॥ इयमेव परमात्मनो गुणगानं कारयितुं सहाधिकास्ति । अस्मिन पति जराया एव साम्राज्यं दुस्त्याज्यं वर्तते । अस्था: शासनोघने न केsपि समर्थ भयुः काकादति कृष्णानपि केशान् स्वप्रमावाद्धंसत्र शुक्लीकरोति । किमधिकं १ बार्द्धक्ये तु पुरुषमतिविडम्बयति सा । यदुक्तम्- गानं संकुचितं गतिर्विगलिता दन्ताथ नाशं गता, दृष्टिभ्रम्यति वर्षते बधिरता वक्त्रं च लालायते । वाक्यं नैव करोति बान्धवजनः पत्नी न शुश्रूषते, हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यवज्ञायते ।। २९ ।। दन्ता रखना च परस्परमुपकुरुतः, जरा दन्तानपि निपात्य रसनामसहायां करोति । पलितश्वास्या वायुकम्पितपताकास्ति ।
SR No.090467
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1998
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari, Biography, & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy