________________
यतः - अजस्रं लसत्पधिनीवृन्दसङ्ग, मधूनि प्रकामं पिबन्तं मिलिन्दम् | रविमचयत्यन्ज कारागृहेभ्यो, दयालुर्हि नो दुष्टवदोषदर्शी ॥ ७ ॥ केवलज्ञानवतोऽस्सदा खिलसुरासुरेन्द्रनरेन्द्र ो धनमस्कृतचरणाब्जवतो भगवस्तु कौवरत्याऽपि कापि वार्ता हमा नास्ति, तस्माद् हे भवाब्धिपोतनिम ! हे जगद्गुरो ! ममाखिलसन्देहनिवारणाय कृपा क्रियताम् ।
यतः - गडगा पाप शशी तापं, सैन्धं कल्पतरुस्तथा । पापं तापं च दैन्यं श्र, हन्ति सन्तो महाशयाः॥ ८ ॥ इन्द्रस्य विनीतमिदं वचो निशम्य श्रीमुनिसुव्रतस्वामिना तत्पूर्वभववृत्तान्तं वक्तुमारेमे - अस्य जम्बूद्वीपस्य मरतक्षेत्रे विदर्भामित्रो रमणीयतरो देशो वर्तते । तद्वर्तितिलकाख्यनगर्यामेकदा मदनभ्रमाऽऽहो राजा राज्यशासनमकरोत् । तस्य रूपगुणाढयायाः कमलमालाभिघानायाः पट्टराश्याः कुक्षिजा सौन्दर्येण कल्पद्रुममञ्जरीनिभा तिलकमञ्जरीनामन्येकाऽऽत्मजाऽऽसीत् । सा बाल्यादेव मिथ्यात्स्वधर्मरता मक्ष्यामक्ष्यविवेकविहीना जैनधर्मद्वेषिणी चाऽऽसीत् । परं यथा चन्दनतरोर्मक्षिकावैमुख्येऽपि तन्मूल्य न्यून न भवति, प्रत्युत तत्सोरमात्मैव वनीवच्यते, तथैष यदि बहुलकमा कश्विज्जनो जैनधर्म न श्रघाति, तर्हि ततो जैनधर्मस्य हानिने भवति, किन्तु स स्वयमेवान्तरायकर्मयोगेन तल्लाभाद् वञ्चितो भवति, नूतनकर्माणि च बध्नाति ।
यतः -- पद्देवैरपि दुर्लभं च घटते येनोवयः श्रेयसां यन्मूलं जिनशासने सुकृतिनां जीवितं शाश्वतम् । तत्सम्यक्त्वमवाप्य पूर्वपुरुष श्रीकामदेवादिव-दीर्घायुः सुरमाननीयमहिमा श्राडो महर्द्धिर्भव ॥ ९ ॥