________________
--
शक्यते १ । भवता स्वराज्यस्य समुचित प्रबन्धं कृत्वाऽरमेवागन्तव्यम्, यतोत्र यत्किचिन्मामकमस्ति, तदपि सर्व प्रान्ते मावत्कमेव भविष्यति । ततस्ताभ्यां पुत्रीं प्रस्थापयस्यां सा कथिता-अयि प्रियवासे ! त्वं श्वसुरालयं लब्ध्वा जनयित्रोरास्यमुज्ज्वलयेथाः । स्तसपन्नीमग्रजा बुद्ध्वा सम्मानयः। तव श्वशुरचोरभायात्स्वामिनमेव सर्वस्वं मत्वा सदा सोऽनुरञ्जनीयः। कदाचिदनवधानतयाऽपि यत्तदर्थ कलिनैव कार्यः। यथोक्तम्-शुश्रूषस्व गुरुन् कुरु प्रियसखीवृत्ति सपत्नीजने, भर्मुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः।
भूयिष्ठं भव दक्षिणा परिजने भोग्यध्वनुत्सकिनी, यान्त्येवं गृहिणीपद युवतयो वामा: कुलस्याधयः।।८८॥
तब चातुर्य जाननप्पई स्वकर्तव्य ज्ञात्वा वा ज्ञापयितुमिच्छामि, यन्ममभिद्यापद्यपि देवगुरुधर्मप्रमादो ने विधेयः । एषु विषयेषु स्तोकमप्यौदास्यं न दर्शनीयम्, दानपुण्यादिसम्बन्धे तवाधिककथनस्यावश्यकतव नास्ति, तत्तु त्वदाहिकं कर्म वर्तते । पुनरेतदपि स्मरणीयं, यत्प्राणिमात्रायापि कदापि कष्टं नैव देयम् ! । यता-न सा दीक्षा न सा भिक्षा, न सद्दानं न तत्सपः । न तद् ध्यानं न तन्मानं, दया यत्र न विद्यते ।।८।।
इत्थं तां शिक्षयतोस्तयोस्तन्मात्रा निजाश्रुधारया प्रेमलाप्लावितेव, पित्रोवियोगविखिकां तो परितः परिवृताः मुसख्योऽप्यासन्, ताभ्यः पृथग् भवने सस्या दुःसई दुःखमजनि परं तदानीं ताभिः प्रेमपूर्णवचोभिस्सा शमिता । तदा सुरगणोऽपि तस्यावलोकनाय वियति स्तंभित इव बभूव । मुहुः सर्वैः समं मिलित्वा सजललोचनं प्रस्थानं सा ययाचे ततः श्वश्रवा चन्द्रनिटिले चन्दनं ।
RESO