________________
चर्चयित्वा तत्करे दीनारान्वितं श्रीफलं दत्तम् । अथ रामचन्द्रस्यादेशेन शुभमुहूर्ते तत्सैन्यमाभापुरीं प्रस्थितम् । तदनन्तरं सपरिकरस्य मध्येनगरं भूत्वा पुरो वाद्यमानवाद्यस्य व्रजतस्तस्योपरि चतुष्पथे नागरिकैर्मुक्ताफलवृष्टिः कृता । तरुण्यो माङ्गलिकं गायनं गायं गायं तयोfaraराशिषो ददाना आसन ! एवं पन्थानमतिक्रामन्तः सर्वे सिद्धाचल तीर्थसमीपं समीयुः। चन्द्रावनिजा निनाधस्तादेव तन्महातीर्थ नमस्कृत्य स्तुतिश्वके । ततः स्वश्वशुरादिकं विमलापुरीं प्रति वालयित्वा ततस्तेन त्वरया प्रस्थानं कृतम् । शिवकुमारस्य नटमंड द्यावधि तेन सहैवाऽऽसीदतो मार्गे यत्र यत्राऽवासोऽभूत्तत्र तत्र तैनटैनैवनवनाटकः सपरिकरस्य चन्द्रस्य मनोरञ्जनमकारि । इत्थमनेकं विषयं विलोकयन्, अनेकान्मांडलिकराजान् वशीकुर्वन्, सैनिकानग्रे निःसारयन्, बही राजकन्याः परिणयन् स क्रमशः पोसनपुरमाप । तत्र नमरानातिदूरे वस्रवेश्म स्थापयित्वा सर्वे विशश्रमुः । पोदनपुरीयं सैवाऽऽसीत्, यत्र गजा चन्द्रो नटः साकमागतोऽभूत् । पाठकरेतदपि स्मृतं भविष्यति, यदत्र नाम्ना लीलाधर एकः श्रेष्ठिपुत्रो विदेशगमनाय कुक्कुटवचनप्रतीक्षां कुः कक्कुटराज श्रुत एव विदेशमीयिवान् । यदा चन्द्रस्तत्रागतस्तद्दिन एव यदृच्छया तस्य लीलाधरस्यापि परदेशादागमो जातः । तस्मिमायते तत्परिवारैर्बहूत्सवः प्रवर्तितः । पाठकेम्यः पूर्वमेव प्रतिपादितमस्ति यल्लीलाधरभार्या लीलावती कृकवाकुराजं स्वधर्मात मत्वा तस्य परमादरं कृतवती, ततो यदा तथा चन्द्रागमोदन्तः श्रुतस्तदा पत्युग्नुमति लब्ध्वा चन्द्रनृपः स्वगृहे निमन्त्रितः, बहुविध मोजनादिभिश्व तद्भक्तिः कृता । राजा चन्द्रोऽपि तां निजधर्मजामि जानन् तस्यै तद्मर्तृकुलजनेभ्यश्र वस्त्राभूत्यादिकं दवा तोषयामास । यतः -
दानेन चक्रित्वमुपैति जन्तु-र्दानेन देवाधिपतित्यमुचैः। दानेन निःशेषयशोऽभिवृद्धि - दानं शिवे धारयति क्रमेण ९०