________________
च्छति । तथा भवतापि मे दुर्गुणान् स्वान्तेऽगृहीत्वा स्वसौजन्यपूर्ण, बहुपितमे। सानां सत्पुरुषाणाम् । यतः - अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् । सदा लोकहितासक्ता, रत्नदीपा इवोत्तमाः ॥ ७० ॥
यथार्थतो ममागोत्यनुचितमासीद्यतः वभूवचनं मत्वा भवद्वश्वना कृता । तदानीं वामजानत्या मया यथार्थतः स्वोदरं ताडयित्वा पीडावा, तदर्थ मे महान पश्चात्तापो भवति । परं कदाचित्कदाचित्पुण्यापचयात्कर्मदोषाद्वा मनुष्याणां बुद्धिर्ब्रश्यते । यतः - कर्मणा वाध्यते बुद्धिर्न बुबधा कर्म बाध्यते । सुबुद्धिरपि यद्रामो, हैमं दरिणमन्वगात् ॥ ७१ ॥ मद्विषयेऽपि तथैवाऽभूत् श्वश्रूवचनमेत्याहं कौतुकविलोकनाय गया, परं तत्र मे तस्माद्धा निर्जाता तेन सांप्रतमपि मे पचातापो भवति । चेन्मया तस्यै भवदुद्वाहदर्ता न कथिता भवेच देतादृशोऽनर्थः कदापि न स्थात्, मम निजकृतेः फलं भोक्तव्यमभूत् । परमहमात्मीयं दुःखं कस्मै निवेदयेयं स्वजाज्यवार्ता कस्मैचित्कथितुं स्फूर्तिर्नेयर्ति । कृतेऽपि पश्चात्ताप विकृता वार्ता न शुद्धयति, यतः पयसि पीते जातिप्रश्न को लाभः १ यद् भाग्ये लिखितमासीत्चद् भोक्तव्यमभूत् । भाग्यस्याग्रे कस्यचित्किञ्चिन्न प्रगल्भते ।
उक्तमपि भगवन्तौ जगने, सूर्याचन्द्रमसावपि । पश्य गच्छत एवास्तं नियतिः केन लभ्यते ? ॥ ७२ ॥ प्रिय ! भवद्वियोगस्य षोडशाब्दी व्यतीता । एतेषु दिनेषु मयि किं किं व्यतीयाय, मम किं किं शारीरिक मानसिक कष्टं सोढव्यमभृत् तदहमेव जानामि नान्यः कोऽपि किमधिकमतः परं विरहे सुखावहमपि वस्तु दुःखप्रदमेव भवति । यतः -
रात्रिमें दिवसायते हिमरुचिश्चण्डांशुलक्षापते, तारापङ्क्तिरपि प्रदीप्तवडवाच हिस्फुलिङ्गायते । धीरो दक्षिणमारुतोऽपि दहनज्वालावलीढायते, हा हा! चन्दनबिन्दुरथ जलवत्संचारिरङ्गायते ॥ ७३ ॥