________________
सेवकेनापि सर्वा वार्ता न निगाद्यते, तस्मादिदानीमेतावद्भिरेव वृत्तान्तैः संतुष्टिर्विधेया । इत्थं सेवर्क प्रबोध्य राज्ञा चन्द्रेणाभापुर्यो सविसृष्टः यथासमयं तत्र गतः स गुप्तेन मंत्रिणा संगतः । राज्ञा चन्द्रेणामात्यनामाङ्कितमप्येकं पत्रं दतं धीसखस्तत्पठित्वा सृशं जहर्ष । संकेन निवेदिते स तं गुप्तमेव गुणावलीसमीपं निन्ये । तत्र तेन स्वयं निजहस्तेन तस्यै पत्रमर्पितम्, पत्रं पठित्वा तल्लो चनाम्यामधुधारा चचाल सा स्वहृदयेन श्लेषं लेषं तत्पत्रं मुहुर्मुहुः पपाठ । तत्पत्रमित्यमासीत् - प्रिये ! गुणावलि ! अहं भगवतोऽनुकम्पयाऽत्र विमलापुर्या प्रसमस्समपि तावकीनं कुशलोदंतं ज्ञातुमत्युत्कंठितो भवनस्मि । मनस्येपैवेच्छा जायते, यदिदानीमेवागत्य त्वया संगच्छेय परं स्वमवगच्छसि - विमलापुर्थ्यामा पुर्योर्ब्रह्नन्तरं विद्यते । ततः पत्रं प्रेपयामि, देशान्तरस्थयोः सुहृदोः पत्रेणैव मिलनं भवति । अत्रत्योऽयं समाचारोऽस्ति यत्सूर्यकुंड प्रभावान्मे पुनर्मनुष्यत्वप्राप्तिर्जाता । नूनमस्य तीर्थस्य महामद्दवं वर्तते, अतोऽस्य यावती प्रशंसा क्रियेत तावत्येवानृयते । ममो द्वारस्येमां वार्तां ज्ञात्वा ध्रुवं ते प्रमोदो भविष्यति । अनेन पत्रेण प्रायस्वाऽऽनन्द थुरे धिष्यते चैवं भवनं स्वाभाविकमेवास्ति । ममापि प्रत्यहं तावकी स्मृतिरायाति परं सदैव त्वदीपा सा करवीरयष्टिर पिन विस्मर्यते । त्वया मत्स्नेहस्य चिन्ता न कृता श्वश्रूवचनमागत्य ममोपेक्षा कृता । स्मृतेऽस्मिन् वृत्तान्ते मदीयं मनथेखिद्यते, परमत्र ते को मन्तुः १ एतदर्थमहं त्वामपराधिनीं न मन्ये । यतः समस्तः संसार एवदेव कथयति, यत् खी कस्यापि न भवति । उक्तमपि चतुराः सृजता पूर्व - मुपायांस्तेन वेधसा । न सृष्टः पञ्चमः कोऽपि गृह्यन्ते येन योषितः ॥ ६३ ॥
योषिदेकत्र स्वभर्तारमपि विक्रेतुं, स्टेनलुष्टाकानाथ संमुखीना भवितुमर्हति अन्यत्र लोकवश्वनाथ मार्जारनेत्र दर्शनादपि भयेन