________________
NIOS
यता-वल्लभोत्सङ्गसंगेन, विना हरिणचक्षुषः। राकाविभावरीजानि-विषज्वालाकुलायते ।। ५७ ॥
वत आभापुर्यागमनसमये मया तस्य वचनं दचं यन्मनुष्यत्वावाप्स्यनन्तरं सफ्धेवाहमागत्य स्त्रया संगस्ये, परमत्र प्रेमला- || | प्रेमपाशबद्धत्वादहं तां गुणावी नितान्तमेव विस्मृतवान् तनोषितम् ।।
यतः-प्रेम सत्यं तयोरेव, ययोर्योगधियोगयोः । वत्सरा वासरीयन्ति, वत्सरीयन्ति वासराः ।। ५८॥ __ अतोऽधुना मे निजोक्त्यनुसारेण झटित्येव तया सह संगमनीयम् । संसारस्याप्पयं नियमोऽस्ति, यद्यो हृदयेन येन समं पथा | प्रेम करोति तस्यापि म सह निष्कपटमान तथैव क्षीरनारतुल्यं प्रेम कर्तव्यम् । तथा चोक्तम्
क्षीरेणात्मगतोदकाय हि गुणा दत्साः पुरा तेऽखिलाः, क्षीरे तापमवेक्ष्य तेन पयसा धास्मा कृशानी हुतः । | गन्तुं पावकमुन्मनस्तदभवद् दृष्ट्वा तु मित्रागमं, युक्तं तेन जलेन शाम्यति सतां मैत्री भवेदीदृशी ॥५९|| ____ गुणावली विमातुरुकाववश्यमागता, परमत्र कश्चित्संदेहो नास्ति, यत्सा मय्यत्यादरं विदधाति स्मेति ममापि जीवनपर्यन्त तदस्मृतिनोंचिता । इत्थं बार्ता मुहुायमान एव प्रातरभूत्ततः कृतनित्यक्रियेण राजा चन्द्रेण गुणावल्यै पत्रं व्यलेखि वचकस्मै सेवकाय दचोक्तम्-इदं पत्रमामापुर्या नीत्वा विजने सचिवाय दाव्यम् । स चैतद्दल गुणावल्या: समीपं प्रापयिष्यति तत्र | तब गमनोदन्तः कस्यापि वेदनीयो न भाव्यः । यतः सादप्पतिदुष्टा मम विमाता त्वदशुमकारिणी भविष्यति । यतः
सर्पदुर्जनयोर्मध्ये, वरं सर्पो न दुर्जनः । सो दशति कालेम, दुर्जनस्तु पदे पदे ॥ ३० ॥