________________
भवानेतद्विचिन्तयन् भवेत, यदपराधिनोऽवश्यं दण्डनीया, येन तेषां स्वकृतावनुतापो जायेत । परमहं भवन्तं ब्रवीमियदेते स्वागो मितं पर्याप्तदंडं मुक्तवन्तः । एषु यद् व्यतीतं तदेवेषां शिक्षाग्रहणाय बहुलं विद्यते । अतःपरममी पुनरीदृशी दुष्कृति कदाचिदपि न
करिष्यन्ति । पुनर्यघेषु छलप्रपञ्चकार्येषु भवान् निजाङ्गजाया एव कर्मणां विपाकं मन्यते, तदा भवत एतदपि मन्तव्यं भवेत. यदिमे तु | निमित्तमात्रमेवासन्नतेऽन्यत्कर्तुमेव किं शक्नुयुः ? सिंहलाधिपतनयोऽपि कुष्ठरोगाभिभूतोऽस्ति, अत एमिर्यदकारि तत्पुत्रप्रेम
प्रेरणयैव कृत, सौतेषु दयार्णल्पवद्राः इट नाणीवः पालो मकरध्वजस्य मानसे चन्द्रोक्तवार्ताया महाप्रभावोऽपतदिति सोऽपि ताचनमन्यथा कर्तुं न शक्नोति स्म । तेन तत्क्षण एव तदिच्छानुसार पश्चाप्यपराधिनो बन्धनमुक्ताः कृताः । तदानीं प्रेमलयाध्यातम्जनाना स्वस्त्रामिदेवस्य कोऽपि प्रभावः प्रदर्शनीयः । अतो द्रुतमेव सा राजास्थानीमुपेत्य राशचन्द्रस्य चरणौ प्रक्षाल्य तदेव पादोदक नृपात्मजस्य कनकध्वजस्य काये सिषेच । सिक्त एवानिजले सद्यः कनकध्वजकुमारस्य कुष्टव्याधिर्निववृते । तत्काले एव राजश्चन्द्रस्य जयारा कुर्वनिर्देवैराकाशात्पुष्पवृष्टिस्तदुपरि कृता ततः कुमारकनकध्वजोऽपि निजोपकारिणश्चन्द्रस्य चरणयोः पपात । तदा सर्वे सभासदोऽमुमलौकिकं चमत्कारं विलोक्य विस्मयमाफ्याः, पुनरनया घटनया भजानेश्चन्द्रस्यापि भूतले बहुला सुयशोवृद्धिर्बभूव । राजा मकरध्वजेन सिंहलेश कियदिनानि यावत् स्वातिथिरूपेण तत्रैव स्थापितश्चान्ते सम्मानेन स स्वदेशे विसृष्टः । तत्रैव सुखेन । कियदिने गतेऽन्यदा निशीथे जाग्रतः पूर्वापरवार्ता घ्यायतश्चन्द्रस्य गुणावल्पाः स्मृतिरागता स मनसि वक्तुं लम-अहो ! अहन्त्वत्र । सुखे समयं गमयमस्मि, परं गुणावस्याः कालो न जाने कथं निर्मतो भवेत् ।