________________
ससचिवः सिंहलाधीशो राजसमितावानीयते स दृष्ट एव तस्मिन् राा मकरध्वजेन सकोपमुक्तम्-हे दुष्ट ! सिंहलेश ! त्वयेदं ६. किं कृतम् ? राजपुत्रो भूत्वाऽपि त्वया मया सममिदं शत्रुत्वं कथं बद्धम् ? त्वया शयानः केसरी निजविनाशाय कथं जागरितः १६
स्वदर्थन्पिद हास्यकारणं जातं मदङ्गजायास्तु प्राणापहारि कार्य विनिर्मितम् । त्वया प्रथममई छलिता, पश्चान्मे दुहिता कलविता । त्वदीयस्यास्याशुभकृत्यस्यापि कश्चित्सीमा वर्तते । अनेन कुकृत्येन तवायुरल्पमहं मन्ये, अतःपरं त्वं चिरं जीवितुं नाहसि । पुनस्त्वादशस्य पापिनो मुखावलोकनमपि महन्कल्मपजनकमस्ति । इत्थं भृशं तिरस्कृत्य सिंहलाधिपादेवधाय राज्ञा मकर-3 ध्वजेन घातुका आदिष्टाः । अक्षम्यागस्त्वान्मौनियर स्वरक्षावगी किंपित्यागगराइसिका न बभूवुः, ते द्रुतमेव मृत्यवे सज्जिताः ५ संजाताः । परं परमोपकारिणा राज्ञा चन्द्रेपैतमाश्यत, अतस्तेन सपद्यत्थाय व्याहृतम्राजन् ! एते पञ्चजना भवच्छरणागताः सन्ति, तत एषां प्राणापहरण न रम् । यद्यपकारिभिः सत्राऽपकार एव क्रियेत, तदा सदसतोः संसारे को भेदो भवेत् ।। यतः-सुजनो न याति विकृति,परहितनिरतो विनाशकालेऽपि। छेदेऽपि चन्दनतमः सुरभयति मुखं कुठारस्य ५५
पुनरेमिस्तु प्रकारान्तरेणाऽस्माकमुपकृतमेवाऽस्ति । चेदेमिः पड्यन्त्रमिदं न रचितं भवेत्तदाऽऽवयोरयं सम्बन्धः कथं युज्येत । जगति शुभप्रतिदानाय बहवो जना शुभं विदधति, परमपकृते कनोपकार एव प्रकृतिसज्जनो बोद्धव्यः । यत:-नाहिताय हिताय स्यात्, महान् संतापितोऽपि हि | पश्य रोगापहाराय, भवेदुष्णीकृतं पयः ॥५६॥
अतोऽतिरिक्तो द्वितीयोऽयमुदन्तोऽस्ति, यदेतेषां मोचनेन भवद्यशः समेघिष्यते, जना भवतः श्लायां च करिष्यन्ति । चेद् ।