________________
स्व
|
CLARERAKASHARESAE
गत्वा दर्शनं कृतम् । प्रान्ते भ्रमन्ती भ्रमन्ती सा राजादनक्षान्तिकमागतवती तत्र भूमौ पतितानि पर्णानि कुक्कुटराजेन चञ्च्ची-18|| । त्याटिखानि तेन स मनस्येवातिप्रसेदिवान् । क्रमशोर्चनीयं सर्वविधि प्रपर्ण पेपला सत्ययामि गया शर्मकुंडं वीक्षितुं प्रस्थिता । निर्मलपयःपूर्ण पङ्कजैश्च सुशोभितं सूर्यकुंडं तथा प्रत्ययत यथा समतारसस्य कुंडं किस भवेत् ? तज्जलं संस्पृश्य शीवल: सुरभिर्वायुः | प्रवहमान आसीदिति प्रेमला कुक्कुटराज करस्थं कृत्वा तस्य कुंडस्य तटे समुपविष्टा स्वर्गीयसुखानुभूतिप्रदं तद्वायुसुखस्पर्शमादातुं | लग्ना । सूर्यकुंड वीक्ष्य पूर्व प्रसन्नोऽपि ताम्रचूडाधिपः पश्चादतीतर्तमानघटनां संस्मृत्य खिन्नमनाचित्ते चिन्तित लनःअहो ! इत्थं तिर्यगवस्थायां मे षोडशाब्दा व्यतीयुः, कुत्र स्त्री ? कुत्र गृहम् ? कात्मीयस्वजनाः ? कुत्र च तद्राज्यम् ? इदानीं मदर्थ तेषां सर्वेषां भवनममवनतुल्यमेवास्ति ।
यतः-इतो न किञ्चित्परतो न किञ्चिद, यतो यतो याति ततो न किश्चित् ।
स्वात्मावबोधादपरं न किश्चि-द्विचार्यमाणेऽपि जगन्न किश्चित् ॥ ३५ ।। मम विमाता तत्वतो मे वैरिणी विद्यते, यतस्तयैव मामकीनदृशी दशा कृताऽस्ति । सकलोऽप्ययं संसारः स्वार्थपूर्णों वर्तते । यतः-वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरसारसाः, पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं बनान्तं मृगाः। निद्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं सेवकाः, सर्वः स्वार्थवशाजनो हि रमते नो कस्य को वल्लभः ॥३६!! ____ अत्र सारमृतं किमपि नास्ति, पुनर्नटैरहं सर्वत्र देशे भ्रामितः, परं मे दुष्कर्मणोऽवसानं नायातम् | अहं मनुष्यत्वं विलोप्य कचवरखनका कुक्टोऽभूवम् ! अधुनैतावदिनेषु गतेषु पुनर्मनुष्यत्वप्राप्तेराशा व्यर्थवास्ति । एतादृश्याशा रक्षितव्यैव मे कथं मवेत ?
रAAEEG